पृष्ठम्:चम्पूभारतम्.pdf/१६३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१६१
चतुर्थ स्तबक ।


नीलदृषदासने निषीदतोऽनुष्य कुरुकुलप्रदीपस्य प्रतीप निविशमान शकुनि स्थानाद्धशयितु साक्षात्कृत[१]सनिधी रिक्तमध्यमवर्णया तदीयाभिख्यया बा[२] च्यो ग्रहविशेष इव प्रासङ्गिकेन पथा दुरोदरविहारेऽवतार[३] मचिरमभिरोचयामास ।

अथ सदसि महत्या चा[४]ज्ञयासौ नियत्या
 सुमतिमपि विमुह्थ धूतमार्गे प्रवृत्तम् ।
बहुषु जनपदेषु प्रा[५]प्नुवत्सु ग्ख्हत्व
 सपदि सुबलसूनुर्धर्मसूनु विजिग्ये ॥ ३३ ॥
 एकेन यत्सुबलभूर्युगपद्रहीतु-
  मक्षेण सर्वविषयान्नृपतेरशक्नोत् ।


कुरुकुलप्रदीपस्य धर्मराजस्य प्रतीप अभिमुख प्रतिकूल यथा तथा निविशमान उपविशन् प्रविशश्च स्थानात् ऐश्वर्यात् भ्रशयितु च्यावयितु साक्षात् मूर्तीभूत भूय कृत सानिधि समीपवर्तिख येन स रिक्त अन्य मध्यमवर्ण कुकार यस्या तया तदीयया शकुनिशब्दसबन्धिन्या अभिख्यया नाम्ना । कुकारशून्येन ' शनिरितिसज्ञाशब्देनेति यावत् । वाच्य प्रतिपाद्य प्रहविशेष शनैश्चर इव स्थित इवेत्युत्प्रेक्षा । शकुनि दुर्योधनमातुल प्रासङ्गिकेन पथा । तत्तत्प्रस्तावपारम्पर्येण दुरोदरविहारे धूतक्रीडाया अवतारं प्रवेश अचिर सत्वर अभिरोचयामास । तदभिलाष जनयामासेत्यर्थ ।

 अथेति । अथ अनन्तर महत्या सदसि सभायाम् । ‘स्त्रीनपुसकयो सद' इत्यनुशासनात्सद शब्दस्य स्त्रीत्वम् । असौ सुबलसूनु शकुनि शोभना कर्तव्याकर्तव्यकोविदा मति बुद्धि यस्य तथोक्तमपि नियत्या दैवस्य आज्ञया गत्या विमुहा मौढय प्राप्य धूतमार्गे दुरोदरविहारे प्रवृत्त वर्मसूनु युधिष्ठिर बहुषु जनपदेषु नानादेशेषु ग्लहत्व पणच प्राप्नुवत्सु । पणकृतेष्वित्यर्थ । सपदि द्वैत विजिग्ये जितवान् । जयते क्र्तरि लिट् । ‘सँल्लिटोर्जे ’ इति कुखम् । यद्वा ‘धर्मसूनु विमोहा’ इति पाठमाश्रित्य योज्यम् । अत्र जनपदानामेव कर्मलम् । दुर्लल्या दैवगतिरिति भाव । मालिनी ॥ ३३ ॥

 एकेनेति । सुबलभू शकुनि एकेन अक्षेण पाशकेन इन्द्रियेण च। ‘अक्ष रथाङ्गे सेनाया पाशकेन्द्रिययोरपि” इति विश्व । नृपते युधिष्ठिरस्य सबन्धिन सर्वान्विषयान् देशान् शब्दादीश्च । युगपत् एकदा ग्रहीतु स्वीकर्तु ज्ञातु च अशक्नोत् समर्थोऽभूदिति यत् । ‘विषयो देशशब्दाद्यो' इति विश्व । अस्मादे काक्षेणैकदा सर्वविषयग्रहणात् पर अन्यत् वस्तु परमाद्भुतेति यद्वाचक पद


  1. ‘सनिधिरमध्यम’ इति पाठ
  2. वाच्य इब ग्रहविशेष’ इति पाठ
  3. ‘अचिरात्' इति पाठ
  4. ‘अनुज्ञया’ इति पाठ
  5. ‘प्राप्तवत्सु' इति पाठ