एकैकमुष्टिहतये स्म भवन्ति नाल |
यस्य तादृशो बाहुर्यस्य तथोक्त त भीम वीक्षितुम् अत्र जगति लोके के वा शकुयु समर्था । न केऽपि शकुयु । कुत यस्य भीमस्य आहवे युद्धे एकैक्स्यैव मुष्टिहृतये मुष्टयाघाताय बकोऽसुर , बृहद्रथभू जरासध , हिडिम्बोऽसुरश्च, ते त्रय अल पर्याप्त न भवन्ति स्म । अत्रापि पूर्ववत्काव्यलिङ्गम् ॥ २२ ॥
ताभ्यामिति । ताभ्या भीमार्जुनाभ्या उपास्यमानस्य पार्श्वद्वये सेव्यमानस्य स्खय तपसस्तनुज-मन यमपुत्रस्य व्यापादे द्रोहचिन्तन एव प्रसक्ति का । नास्तीत्यर्थ । विशेषात् तत्रापि तानिव पश्यन्तीति तादृशा लोकैकवीराण सबन्धिनि रणे प्रसक्ति का । दूरतोऽपास्तेत्यर्थं । उभयत्रास्माकमिति शेषअत्र युधिष्ठिरे विशेषणद्वयस्य लोकैकाजग्यभिप्रायगर्भत्परिकरालकार । एव द्रोहचिन्तनमात्रस्याप्यसभवोक्तया रणे प्रसक्तयभावस्य कैमुतिकन्यायसि द्धादर्थापत्त्यलकरश्च । द्वयोस्तिलतण्डुलन्यायेन मेलनात्ससृष्टि ॥ २३ ॥
तथापीति । तथापि तेषामजग्यत्वेऽपि तेषा युधिष्ठिरादीना विभवे भाग्ये तव विभवे च परस्पर परिपणन द्यातपण तस्य पद स्थान अधिरोहतीत्यधिरो हिणि सति । पणखेन निदिष्टे सतीति यावत् । अह तु जगत सर्वस्य सामान्यता साधारण्य अक्षममाणेन असहता । अनन्यसामान्येनेत्यर्थः । अक्षविद्ययन सप्रदायेन शिक्षानैपुण्येन त वर्मराज पराजय एव घण्टापथ राजमार्ग तस्मिन् ऋणात् सचारयिष्यामि । शृतेन सर्वमपहरिष्यामीत्यर्थं ॥
वित इति । वित्ते सर्वस्वे हते सति । घृतेनेति शेष । अनन्तरं दरिद्रा ते पाण्डवा बन्धुभि मातृपुत्रादिभिरपि स्वय विसृष्टा सन्त शुचा धनस्खजनत्याजन्येन शोकेन विनाश वा यायु गच्छेयु । अथवा लज्जया विदेश परदेश वा यायु ! ‘परिम्लाने माने मरणमथवा दूरगमनम्’ इत्युक्तत्वादिति भाव । अत्र विनाशविदेशयोरेकदा गन्तुमशक्यत्वाद्विकल्पालकार - 'विरोधे तुल्यबलयोर्विकल्पालकृतिर्मता' इति लक्षणात् ॥ २४ ॥