पृष्ठम्:चम्पूभारतम्.pdf/१५८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१५६
चम्पूभारते


 अधुना युधि सेनामिर्वि[१]धुन्वानो ध[२]रातलम् ।
 विधा[३]य निधन ते[४]षा निगृहीयाभिमा शुचम् ॥ २० ॥
इति निगद्य व्रीडाव्यथानद्यो सगमे निमग्नमेनमभग्नकैतव[५]बन्धु गान्धारपतिरुत्तारयितुमेवमुत्तरमादत्त ।
जय्यता कथमुपैति तेऽर्जुनो वत्स यद्युधि भयात्पलायिता ।
केवल हरिमुखा न नामतो वेगतोऽपि मरुतोऽभवन्सुरा ॥ २१ ॥
अपि च ।
 त वीक्षितु जगति शन्कुयुरत्र के वा
  भीम प्रकोपधृतभीमगदाङ्कवाहुम् ।


द्रौपदी वल्गन्तौ हासक्षोभात् चलन्तौ कुचौ यस्मिन् तधथा तथा । उञ्चै परि जहास हासमकरोदिति यत्, तत् परिहसन साधु उचित जातमभूदिति । स्वा स्वीया स्नुषा पुत्रपत्नी प्रति वक्तुमिवेत्युत्प्रेक्षा । अय मम प्राणमयो वायु उत्क्र मणेच्छु निर्गमनेच्छावान् सन् आस्ते । परैरवमानो मानिना मरणादतिरिच्यत इति भाव ॥ १९ ॥

 अधुनेति । अतोऽहमधुना सेनाभि चतुरङ्गाभि धरातल भूतल विधुन्वान कम्पयन् सन् युधि युद्धे तेषा विरोधिना धर्मराजादीना निधन मरण विधाय कृत्वा इमा शुच शोक निगृहीण्या निरुन्ध्याम् । गृहाण्तेनिपूर्वाद्विध्यर्थे लिड् ॥ २० ॥

 इतीति । इति उक्तप्रकारेण निगद्य उक्त्वा व्रीडाव्यथे लज्जादु खे एव नधौ तयो सगमे निमग्न एन दुर्योधन उत्तारयितु तीर प्रापयितु अभग्नस्य अप्रतिहतस्य कैतवस्य अक्षविद्याया बन्धु । तत्र कुशल इत्यर्थ । गान्धारस्य देशविशेषस्य पति राजा शकुनि एव वक्ष्यमाणप्रकारेण उत्तरं प्रतिवाक्य एकं उत्तीर्यतेऽनेनेत्युत्तर प्लवमिति क्ष्लिष्टरूपकम् । ‘ऋदोरप्’ इत्यपू। आदत्त गृहीत । ददातेराड्पूर्वात् कर्तरि लड् । श्लिष्टाश्लिष्टपरम्परितरूपकम् ॥

 जय्यतामिति । हे वत्स दुर्योवन, ते । त्वयेत्यर्थं । अर्जुन जेतु शक्यो जय्य तस्य भाव तता कथमुपैति । नोपैत्येवेत्यर्थ । कुत यस्यार्जुनस्य युधि भया त् पलायिता । खाण्डवदाहसमय इत्यर्थ । हरिमुखा इन्द्रादय सुरा नाम त केवल नाम्नैव मरुत नाभवन् कितु वेगत पलायनवेगादपि मरुत वायव अभवन् । ‘मरुद्देवे समीरणे' इति विश्व । सोऽर्जुन इति योज्यम् । उत्तरवाक्यार्थहेतुक काव्यलिङ्गम् । रथोद्धता ॥ २१ ॥

 अपि च । इत्युत्तरेणान्वय ॥

 तमिति । अपि च किं च प्रकोपात् धृता भीमा भयकरा च गदा अङ्क चिह्न


  1. ‘विधूनानो' इति पाठ
  2. ‘रसातलम्’ इति पाठ
  3. 'निधाय' इति पाठ
  4. ‘तेषु’ इति पाठ
  5. बधो” इति पाठ