पृष्ठम्:चम्पूभारतम्.pdf/१५२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१५०
चम्पूभारते

उपायनत्वेन नृपाय सर्वैर्दत्तेषु वित्तेष्वखिलेषु भूपै ।
पार्थस्य पुर्या क्षितिरेव भेजे वसुधरावाचकवाच्यभावम् ॥ ५ ॥
नरदेवमगाज्जये प्रतीच्या नकुलेनैव[१] वसूनि विस्तृतानि ।
दधदानकदुन्दुभिस्वनैर्धा दलयन्नानकदुन्दुभे कुमार ॥ ६ ॥
हरिणा स तत कृताभ्यनुजो हविरादातुमिवागतेन साक्षात् ।
क्र[२]मवेदिपुरोधसा समूहै क्त्रतुमाहर्तु[३]मुपक्त्रम प्रचक्रे ॥ ७ ॥


पर खङ्गश्रेष्ठा एव कोशे खङ्गपिधाने ममु मिलन्ति स्म । हेमपुजा उपायनत्वेन तत्तद्देश्यराजदत्ता धनराशयस्तु कोशे धनगृहे न ममु । अपरिमितत्वादिति भाव । ‘कोशोऽस्त्री कुड्भ्ले खङ्गपिधाने धनवेश्मनि’ इति विश्व । अत्र हेमपुञ्ज्ञाना खङ्गना च प्रसक्तस्य कोशमिलनस्य खङ्गमात्र एव नियमनात्परिसख्यालकार । स च कोशशब्दश्लेषभित्तिकालब्धखङ्गपिधानधनगृहृभेदाध्यवसायमूलातिशयोक्तयनुप्राणित इति द्वयोरङ्गाङ्गिभावेन सकर । वसन्ततिलकापृत्तम् ॥ ४ ॥

 उपायनत्वेनेति । सर्वे नानादेश्यै भूपै राजभि अखिलेषु वित्तेषु धनेषु नृपाय धर्मराजाय उपायनत्वेन दत्तेषु उपहारीकृत्य समर्पितेषु सत्सु पार्थस्य पुर्या इन्द्रप्रस्थसबन्धिन्या क्षिति भूमिरेव वसुधरेति वाचकस्य पदस्य वाच्य्भाव अभिधेयत्वम् । वसु धरतीति व्युत्पत्त्या धनधारणरूप भेजे प्राप । सर्वत्र सर्वै सर्वस्वस्यापि राज्ञे दत्तत्वेन वसुरन्यत्वादिति भाव । अत्रापि वसुधरत्वस्यान्यत्र निषिध्य पार्थंपुरभुव्येव नियमनात्पूर्ववत्परिसख्यालकारस्य असबन्धे सबन्धरूपातिशयोक्तेश्च द्वयोरपि धर्मराजसप्रद। नकाखिलनृपकर्तृकसर्वखकर्मकोपायनीकरणात्मकपदार्थहेतुककाव्यलिङ्गमूलकत्वदैककालिकत्वाञ्च समप्राधान्यसकर ॥ ५ ॥

 नरदेवमिति । विस्तृतानि बहूनि वसूनि दधत् गृहन् आनकदुन्दुभे वसुदेवस्य कुमार कृष्ण आनकाना पटहाना दुन्दुभीना भेरीणा स्वनैर्ध्वनिभि धा आकाश दलयन् भिन्दन् । पूरयन् सन्निति यावत् । ‘आनक पटहोऽत्री स्यात्, 'भेरी स्त्री दुन्दुभि पुमान्’ इत्युभयत्राप्यमर । प्रतीच्या दिश जये सति । तद्देश्यान् भूपान् जितवतेत्यर्थ । नकुलेन सहैव नरदेव धर्मराज अगात् प्राप्तवान् । औपच्छन्दसिकम् ॥ ६ ॥

 हरिणेति । तत कृष्णागमनानन्तरं स धर्मराज साक्षात् मूर्तीभूय हविरादातुमागतेनेव स्थितेन हरिणा श्रीकृष्णेन कृताभ्यनुज्ञ सन् । क्रतुकरणायेति शेष । क्रमवेदिना तत्तत्कर्मतदनुष्ठानपौर्वापर्यविदा पुरोधसा ऋत्विजा समूहै। सह क्रतु राजसूय आहर्तु कर्तु उपक्रम आरम्भ प्रचक्रे । ‘क्रमवेदिभिर्त्रश्क्त्विजा'


  1. ‘इव’ इति पाठ
  2. ‘विस्मृतानि’ इति पाठ
  3. ‘क्त्रमविद्भिरथर्विजां समाजै” ’ इति पाठ