पृष्ठम्:चम्पूभारतम्.pdf/१५०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१४८
चम्पूभारते

लयितारमनुकुर्वतो विविधान्यदुर्लभवसुधान्यसमेधितवसुधान्म[१]गधा[२]नवगाह्य विक्ष्टङ्खला[३]मोदितगिरिव्रजमपि शृङ्खलाखेदितमहीभृत्कुल जराघटितदेहमपि देदीप्यमान[४]बलसपन्नमाशाजेतारमपि परार्थापहारजागरितार मागधमपि विगीतव्यापार द्वैमातुरं महारथ [५]जरासध [६]पृथिवीनाथमेत्य प्रधन ननाथ ॥

तत्क्षणम[७]तितितिक्षया 'त्वमष्टादशकृत्वो द्दष्टापजयोऽसि, अय पुन-


येषा तेषा द्विमातृकाणा नदीमातृकाणा देवमातृकाणा च भावेन द्विमातृकतया 'देशो नद्यम्बुवृष्टयम्बुसपन्नव्रीहिपालित।स्यान्नदीमातृको देवमातृकश्च यथाक्र मम्॥'इत्यमर। स्वेषा पालयितार राजान जरासध अनुकुर्वत विडम्बयत । तस्यापि द्विमातृकत्वादिति भाव।विविधै कनकमणिरूपै नवविधैश्च् अन्यस्मि न्देशान्तरे दुर्लभै वसुभि धनै धान्यैश्च समेधिता प्रवर्धिता वसुघा भुर्येषु तान्मगधान्नाम जनपदान् अवगाह्य प्रविश्य विश्टङ्खल निष्प्रतिबन्ध यथा तथा आमोदित सतोषित गिरिणा शैलाना व्रज समूह गिरिव्रजानामकराजधानी च येन तथोक्तमति क्षृङ्खलाभि पादबन्धनायसयन्त्रै खेदित दुःख प्रापित महिभृता शैलाना राज्ञा च कुल पृन्द येन तथोक्तम् । जरया चरभवयसा तन्नाम्ना पिशाच्या च घटित सयुक्त सयोजितश्च देहो यस्य तथोक्तमपि। देदीप्यमानेन बलेन सत्त्वेन सपन्न समृध्द आशाना तृष्णाना दिशा च जेतारमपि।परार्थाना अपहारे जागरितार प्रवण मागध वैतालिकमपि।मगधाधिप च विगीतव्यापार गानशून्य निन्दितकर्माण च। द्वयोर्मात्रोरपत्य द्वैमातुरम्।'मातुरुत्सख्यासभद्रपूर्वाया' इत्यपत्यार्थे अण् उत्व च।महारथम्।'आत्मान सारथिं चाश्वान्रक्षन्युध्यति यो भट। स महारथसज्ञ स्यात्' इत्युक्तलक्षणलक्षित जरासध पृथिवीनाथमेत्य प्रधन युध्द् ननाथ याचितवान् । नाथते कर्तरि लिट् । अत्र सर्वस्यापि शब्दस्य वीरोवसमुच्चयार्थद्वयाभिवायकतया वीरोधाभासालकार। श्लेषानुप्राणितश्चेति सकर। अत्र पुरा किल केनचिन्मुनिना दत्त फल द्विधा खण्डयित्वा खण्डमेकैक भुक्त्व अर्वमर्व मातृभ्या प्रसूय त्यक्त शरीरखण्डद्वय जरानाम्न्या पिझाच्या एकीकृतजरासवोऽभूदिती पौराणिकी कथानुसधेया। 'वसुधनधान्य-' इति पाठे 'वसू रश्मौ धने वसु' इति कोशात् धनशब्दवैयर्थ्य छेकानुप्रासभङ्गश्चेति बोध्यम्॥

 तत्क्षणमिति।तस्मिन्नेव क्षणे तत्क्षणम्। अत्यन्त्सयोगे द्वितीया।हे कृष्ण,त्व अष्टादशकृत्व अष्टादशवारम्।अभ्यवृत्तौ कृत्वसुच्।द्दष्टापजयोऽसि। लोकैरिति भाव।इतर त्वदन्योऽयमर्जुनस्तु किशोर बाल इति अतितितिक्षया अत्यन्तक्षमया। 'अतितीक्ष्णतया' इति पाठेअतिकोपेनेत्यर्थ। उभा-


  1. 'मागधान्' इति पाठ
  2. 'अधिगम्य' इति पाठ
  3. 'हर्षित' इति पाठ
  4. 'देहबलसपदम्' इति पाठ
  5. 'जरासध' नास्ति क्क्चित्
  6. 'पृथ्वीनाथमुपेत्य' इति पाठ
  7. 'अतितिक्षुतया' इति पाठ