पृष्ठम्:चम्पूभारतम्.pdf/१४९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

चतुर्थः स्तबक:।


याते ततो निजपुरीं यदुवशकेतौ
 राज्ञे मयो मणिसभा रचयाबभूव ।
यस्या रुच समवलोक्य शुचाधुनापि
 जीव गतागतजुष वहते सुधर्मा ॥ १ ॥
तामधिष्ठास्नुम[१]भ्येत्य त मख
कर्तुम्न्वशात् । विपञ्चीरवसारज्ञो नृप चीरवसा वर ॥ २ ॥

 ततो दूताहूत पुरुहूतानुजो निरन्तरायुसेव महान्त सप्ततन्तु[२]भुपहर्तुमनस कौन्तेयस्योपान्ते रहसि मुहूर्त समव्रय [३]साक्षादुत्साहप्र[४]भावाभ्या मूर्तो मन्त्र इव तत्प्रहिताभ्या गन्धवहसुधान्धोधिपनन्दनाभ्यामनुसधीयमानगमनो नदीतटाकैर्द्धिमातृकतया [५]स्वपा-


 यात इति । ततो युधिष्ठिरसमीपप्राप्त्यनन्तरं यदुवशस्य केतौ ध्वजे । तद्वत्प्रख्यापक इति यावत् । निजपुरी द्वारका प्रति याते सति राज्ञे युधिष्ठिराय मयोऽर्जुनरक्षितो मणिसभा मणिमयी मणीना वा सभामास्थानशाला रचया- बभूव । निर्माय दत्तवानित्यर्थं । यस्या मणिसभाया रुच शोभा समवलोक्य सुधर्मा देवसभा शुचा शोकेन तादृशशोभाराहित्यजनितेन अधुनापि अद्यापि जीवमात्मान बृहस्पतिं च। गतागत यातायात जुषत इति तथोक्त वहते । अत्र सुधर्मायास्तादृङग्दु खकृतजीवयातायातासबन्धेऽपि सबन्धरूपातिशयोक्ति । जीवात्मबृहस्पत्यो श्लेषभित्तिकाभेदाध्यवसायमूलेति तयोरङ्गाङ्गिभावेन सकर । ‘जीव प्रणिनि गीष्पतौ’ इत्यमर । वसन्ततिलका ॥ १ ॥

 तामिति । तामधिष्ठास्त्रुम् । तत्र सभाया स्थितवन्तमित्यर्थ । 'स्थासु स्थि- रतर ' इत्यमर । त खुप धर्मराजमभ्येत्यागत्य विपञ्चीरवसारज्ञो बीणानादोपनि- षद्धेदी चीरं वल्कल वसते परिदधत इति चीरवसा मुनीना वरो नारदो मखम श्वमेध कर्तुमन्वशादादिदेश । शस्ते कर्तरि लुड ॥ २ ॥

 तत इति । ततो नारदनिदेशानन्तर महान्त लोकैकक्ष्लाघ्य सप्ततन्तु क्रतुं राजसूय निरन्तराय निर्विघ्रमुपहर्तुमनुष्ठातु मनो यस्य तस्य अतएव कौन्तेयस्य उपान्ते सनिधौ रहस्येकान्ते दूतैराहूत पुरुहूतानुज श्रीकृष्णो मुहूर्त समन्त्र्या- लोच्य । ‘वशीकृताखिलनृपेणैव राजसूय कार्य , जरासधश्वाखिलस्य जेता, जिते तस्मिन् जितकल्पा एव सर्वे नृपा , तत्र प्रथम तज्जय एवानुष्ठेय ' इत्या- लोचनप्रकार । तेन धर्मराजेन प्रहिताभ्या प्रेषिताभ्या गन्धवहो वायु , सुधा- न्धसा देवाना अधिप इन्द्र , तयोर्नन्दनाभ्या भीमार्जुनाभ्या अनुसधीयमान अनुसयुज्यमान गमनं यस्य तथोत सन् । अतएव साक्षान्मूर्तीभूताभ्या उत्साहप्रभावाभ्या उत्साहशक्तिप्रभुशक्तिभ्या अनुसधीयमान मन्त्र मन्त्र- शक्त्तिरिव स्थित इत्युत्प्रेक्षा । नदीमभिस्तटाकैश्च दे मातरौ सस्यजनयित्र्यौ


  1. ‘आगत्य’ इति पाठ
  2. ‘आहर्तुमनस ’ इति पाठ
  3. ‘साक्षात्’ इति नास्ति कचित्
  4. 'प्रभवान्याम्' इति पाठ
  5. ‘स्वपालयितारमिव’ इति पाठ