पृष्ठम्:चम्पूभारतम्.pdf/१३२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१३०
चम्पूभारते


 अपरासामसूययेव नाभिकुहराणि जलचूषणा[१]दावर्तबावलेप[२]मवालुम्पन् ॥

 इतरासा "ऋचेव कु[३]चकलशा क्षोभणा[४]त्कनदकोकनदशान्विं[५]दलयाचक्रु ॥

वक्षोजकुम्भनिवहाद्वनिताजनाना
 ग्रीष्मर्तुना विनिहित ग्रहराजपुत्री ।
ताप पितु स्वसहरत्तरलोर्मिहस्तै-
 रन्य न याति हि विभूतिरपत्यभाजाम् ॥ ९४ ॥
सुरनायकानुजमनोवशीकृतौ
 सुदृशो भुखैर्निपुणता यथा ययु ।
सरसीरुहैर्न नलिनीलतास्तथा
 सकचान्यमूनि विकचानि तानि यत् ॥ ९५ ॥


जलाना स्वावशदानजन्योनतिमत्त्वेन पुलिनसाम्यासहनितम्बवान्वव्य सपाद्य तझरा तादृशनितम्बकृतखमुत्नेक्ष्यते ॥

 अपरासामिति । अपरामा कासाचिनाभ्य कुहराणीव नाभिरन्ध्राणि । असूयया खसादृश्याद्वेपेणेवेत्युप्रेक्षा । आयर्ताना जबेन योऽवलेपस्त जलानामा वर्तीयाना चूषणाकवला कृत्वेति ल्यब्लोपे पञ्चमी । अवाङम्पन्नाशयामासु । अवपूर्वाञ्झुम्पते कर्तरि लुड् ॥

 इतरासामिति । इतरासामन्यासा कुचा कलशा इव स्तनकुम्भा क्रुधा खसादृश्यकोपेनेत्युत्प्रेक्षा । कनफकोकनदकोशान्सुवर्णसोगन्विमुकुलान्क्षोभ णानिजाघातेन क्षोभ कृत्वेति पूर्ववत्पञ्चमी । विदलयाचक्त्रुबिभिदु ॥ वक्षोजेति । ग्रहराजस्य सूर्यस्य पुत्री यमुना ग्रीष्मर्तुना विनिहित न्यासरू पेण निक्षिप्त पितु सूर्यस्य सबन्विन तापमेव स्ख धनम् । ‘स्वोऽस्त्रिया बने’ इत्यमर । वनिताजनाना हरिसुन्दरीणा वक्षोजकुम्भाना कुचलशाना निवहा द्रृन्दात्तरलैश्वलैरूभिभिरेव हस्तेरहृज्जगृहे । हि यस्मात् । अपव्यभाजा पुत्रवता विभूतिरैश्वर्यमन्यमपत्येतर न याति न प्राप्नोति । सामान्येन विशेषसमर्थन रूपोऽर्थान्तरन्यास ॥ ९४ ॥

 सुरनायकेति । सुदृश सुन्दर्यं । सुरनायफानुजस्य श्रीकृष्णस्य मनस वशीकृतौ वशीकरणे विषये मुखै (करणै) यथा निपुणता कौशल्य ययु , तथा नलिनीलता पट्भवल्लथ तन्मनोवशीकृतौ सरसीरुहैनिपुणता न ययु । तत्र हेतुमाह--सकचानीति । यद्यस्मात् अमूनि मुखावि सकचानि केशसहितानि, तानि सरसीरुहाणि विफचानि केशरहितानि विकस्वराणीति च । अत इति


  1. ‘आवतकुलजवा’ इति पाठ
  2. ‘अवलुम्पन्’ इति पाठ
  3. ‘कुचयुगलानि ’ इति पाठ
  4. ‘कनक' इति नास्ति कचिव
  5. विदलयम्मास’ इति पाठ