पृष्ठम्:चम्पूभारतम्.pdf/१३०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१२८
चम्पूभारते

कल्लोल[१] जालकपटेन कलिन्दपुत्र्या
 पाद प्रति प्रससृपे परमस्य पुस ।
तिष्ठन्ति मे पुनरिह त्रिजगत्पवित्रा
 सख्य कतीति स[२]मवीक्षितुकामयेव ॥ ९० ॥
तस्या जलेषु तरुणाम्बुदजातिवैरि-
 ष्वावर्तजालमनयोरुभयो[३] र्ब्यतानीत्।
वीचीकरा[४]ग्रविनिवारितरामसीर
 व्यावल्गनोपजनितव्रणगर्तशङ्काम् ॥ ९१ ॥ ।


 ण्येलिमच्। ‘परिपक पचेलिमम्' इत्यमरशेष । हेले सूर्यस्य मयूखाना किर णाना कठोरिम्ण उग्रत्वस्य केलिं चेष्टाम् । ‘हेलिरालिङ्गने सूर्ये’ इति वैजयन्ती । तस्य सूर्यस्य तनयायै यमुनायै निवेदयितु ज्ञापयितु कामो यासा ताभिरिव स्थि ताभिरिंत्युत्प्रेक्षा । रामाभी रमणीभिनिरन्तरा सान्द्रा उपान्ता पाश्व ययोस्तौ दृगवनि चक्षुर्मार्गे वसन्तौ वर्तमानौ । मूर्तीभूय साक्षादिव स्थितावित्यर्थ । वसन्तरतिकान्तौ मवुमन्मथाविव स्थितावित्युत्प्रेक्षा । जयन्तजनकस्येन्द्रस्यान न्तरजोऽनुज उपेन्द्र । श्रीकृष्ण इति यावत् । कौन्तेयोऽर्जुनश्च द्वौ । परिपाटलै ररुणैर्हसाना पक्षिविशेषाणा पादैश्चरणैर्दुरवगाहैर्दुष्प्रवेशैर्घनजातैर्जलजै सनाथे सहिते पाथसि यमुनाजले, परिपाटलैर्हसस्य सूर्यस्य पादै किरणै दुरवगाहेन वनजातेनारण्यसमूहेन सनाथे रोवसि यमुनातीरे च। 'हसो विहङ्गभेदेऽर्क’’ इति विश्व । विहारै क्त्रीडाभिस्तेषा दिनाना ग्रीष्मवासराणामौपयिक युक्तमातिथ्य पूजनम् । ग्रीष्मावसरोचितसौख्यमिति यावत् । आपादयितु सपादयितु ता खरामाभिर्विज्ञाष्यत्वेन सभावितामेव भगवतीं सरित यमुना प्रत्यापतता प्राप्त वन्तौ । पततेराङ्पूर्वात्कर्तरि लट् । उत्प्रेक्षाद्वयश्लेषाणा ससृष्टि ॥

 कल्लोलेति ।' कलिन्दस्य गिरे पुत्र्या यमुनया इह भगवत्पादे त्रिषु जगत्सु पवित्रा मे मम सख्यो गङ्गा पुन कति अन्या क्रियन्त्यस्तिष्ठन्ति । इत्युक्त प्रकारेण सुषु विलोकितु द्रष्टु कामो यस्यास्तयोतयेवेत्युत्प्रेक्षा । कल्लोलाना महातरङ्गाणा जालस्य बृन्दस्य कपटेन परमस्य पुस श्रीकृष्णस्य पाद प्रति प्रससृपे प्रसृतम् । रुपे प्रपूर्वाद्भावे लिट् ॥ ९० ॥

 तस्या इति । तरुणाम्बुदाना कालमेघाना जातिवैरिषु जन्मशत्रुषु । तदू दतिनीलेष्वित्यर्थे । तस्या यमुनाया जलेषु आवर्ताना जलश्रमाणा जाल (कर्तृ) वीच्यस्तरङ्गा एव कराग्राणि तैर्विनिवारितस्य रामसीरस्य बलरामहलस्य व्याव


  1. वेग’ इति पाठ
  2. ‘सुविलोकितुकामयेव’ इति पाठ
  3. ‘अतानीत्' इति पाठ
  4. ‘विनिवर्तित” इति पाठ