पृष्ठम्:चम्पूभारतम्.pdf/१२३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१२१
तृतीय स्तबक ।

 पादाङ्गुष्ठनख यस्ते फा[१] ले कुर्याद्विशेषकम्  स नरोऽपि स्मरेणार्त सद्य स्यादामिष दृशो ॥ ७३ ॥  इति सा तस्य वक्रिमस्पृशा वचसा श्रवसा च वि[२]क्षुतपूर्वैस्तैस्तैर्ल[३]क्षणै सोऽय[४] सक्रन्दननन्दन इति निश्चयमाण हृदये[५] पेटिकापुटे निधाय ‘भगवन्, भवदभिहितयोर्विजयनरशब्दयो [६]त्र्क्मेण धर्मिपरता च[७] विशेष[८] नामता च तव कृपया भ[९]विता’ इति तस्मै व्रीडत[१०] रलतरनयन वदनभ [११]वनमन्ती तस्थे


प्रत्युत्तरमाददे स्वीकृतवान् । अयि सुभद्रे, बहुनोक्तेन किम् । योषिता कुले स्वकैर्निजैर्गुणै सौन्दर्यशीलादिभिर्घिजय सर्वोत्कर्ष अर्जुन च प्राप्स्यसि । ‘विजय स्तु जये पार्थे' इति विश्व ॥ ७२ ॥

 पादेति । यो नरस्ते तव पादाङ्गुष्ठनख फाले खस्य ललाटे विशेषक तिलक कुर्यात् प्रणयकलहादिकृतमानापनोदनाय पादयो प्रणमेदित्यर्थ सोऽपि नरोऽर्जुनश्च स्मरार्त सन् सद्य इदानीमेव दृशोर्भवन्नेत्रयोरामिष भोग्यवस्तु । दृश्य इति यावत् । स्याद्भवेत् ‘आमिष भोग्यवस्तुनि” इति विश्व । य इदानी पादाङ्गुष्ठनख ते ले विशेषक कुर्यात्, स त्वया प्रणम्यमान नरोऽहम् अपिरेवकारार्थ । सोऽपि ‘नरोऽर्जुन ‘नरोऽर्जुने मनुष्येऽपि इत्यजय । यत्तु ‘मन्मथवाणविद्ध सन्मासभूत एव भवेत्’ इति भावार्थमाह नृसिंह , तदामिष पदस्य जुगुप्सादायकत्वेनाश्लीलदोषापत्तेस्तथैव हृद्यम्

 इतीति । इत्युक्तप्रकारेण वक्रिमाणमर्थान्तरगर्भतया कौटिल्य स्पृशतीति तेन तस्य क्पटसन्यासिनो वचसा वाक्येन च श्रवसा श्रोत्रेण विशेषेण पूर्व क्षुतैबिश्रुतपूर्वे । आगन्तुकजनसकाशादिति शेष । तैस्तैर्लक्षणैश्विहै प्रमाणरूपवय शीलादिभिश्च हेतुद्वयेन । सा सुभद्रा । अय पुरोवर्ती कपटयति स प्रसिद्ध सक्रन्दननन्दन इन्द्रपुत्रोऽर्जुन इत्युक्तप्रकार निश्चय एव मस्त हृदयमेव पेटिका तया पुटेऽन्तरे निधाय । बहिरप्रकटग्येत्यर्थ । हे भगवन्, भवता भिहितयोविजयनरशब्दयो श्लोकद्वयघटितयो क्रमेण धर्मिपरता विशेषना मता च । विजयशब्दस्य विजयो वर्म सोऽस्यास्तीति वर्मा अर्जुनो विजय अर्शआदित्वादजन्त । तत्परता ततात्पर्यं नरशब्दस्य सज्ञाशब्दत्र चेत्यर्थ ‘व कृपया’ इति पाठे वो युष्माकमिति पूजाया बहुवचनम् । तव कृपया करु णया भविता भविष्यति । भवतेर्लुट्। एव वो वर्मिपरता युष्मदभिन्नधभिपरत्वम् । ‘राहो शिर’ इत्यादिवत् अभेदे षष्ठी । वो युष्माक विशेषनामता च ।


  1. ‘भाले' इति पाठ
  2. ‘निपीतपूर्वै ’ इति पाठ
  3. ‘लक्षणैश्च' इति पाठ
  4. ‘अय यतिं ’ इति पाठ
  5. ‘पेटक' इति पाठ
  6. त्र्कमेण इति नास्ति कचित्
  7. ’च’ इति नास्ति कचित्
  8. ‘नामपर ’ इति पाठ
  9. ‘भवेत्' इति पाठ
  10. ‘तरलनयन' इति पाठ
  11. अवनमय ती’ इति पाठ