पृष्ठम्:चम्पूभारतम्.pdf/११६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
११४
चम्पूभारते

माध्वीलिहा विररुचे मलिनीकृताग्रा
 कान्तारसीम्नि नबकेतकबर्ह्ररेखा ।
दग्धाञ्चले स्मरभिया दयिताजनेन
 सप्रेषिता पथिकभर्तृषु पत्रिकेव ॥ ५५ ॥

अर्जुनेषु सकलेषु विकासिष्वद्विसीम्नि धृततादृशशब्द ।
एक एव विशुशोष विशेषादेतदम्बुध्नेहसि चित्रम् ॥ ५६ ॥
वियत्यशेषासु विदिक्षु दिक्षु वियोगशिल्पीन्द्रविनिर्मिताया ।
तस्या मृगाक्ष्याश्च तडित्ततेश्च धनजय सविविदे न भेदम् ॥ ५७ ॥


निकरै समूहैर्धर्म ग्रीष्मर्तुमेवाभियाति शत्रुमववीध्द्न्ति स्म। हन्ते क्र्तरि लुडि वधदेश । समस्तवर्तिसावयवरूपक्म् । वसन्ततिलका ॥ ५४ ॥

 माध्वीति । साध्वीलिहा भूत्रेण मलिनीकृतमश्र यस्या सा नवा केतकवर्हरेया केतकीकुसुमपत्रम् । ‘रेखाकृतिदले बर्हम्' इत्यमर । स्मराध्दिया भयेन हेतुना दयिताजनेन प्रोपितभर्तुरुकाजनेन पथिकेषु प्रवासिषु भर्तृषु पतिषु विषये सप्रेषिता अञ्चले अन्ते दग्वा पत्रिकालेख इव कान्तारसीम्नि वनप्रदेशे विस्स्चे रराज । विपूर्वाद्रोचते कर्तरि लिट्। आपद्यतिवेगमागमनायान्ते दग्धा पत्रिका प्रवासिभ्य प्रेष्यत इति प्रसिद्धि । उत्प्रेक्षा ॥ ५५ ॥

 अर्जुनेष्विति । अम्बुभृता मेघाना सबन्धिन्यनेहसि काले । वर्षाकाल इति यावत् । ‘कालो दिष्टेऽयनेहापि’ इत्यमरः । सकलेष्वर्जुनेषु ककुभ वृक्षेषु पार्थेषु च विकासिषु प्रकाशवत्सु सत्सु । मुदितेषु सत्स्विति च । धृतस्ता दृश्योऽर्जुन इत्याकारकशब्द सज्ञापद येन तथोक्त । एकोऽर्जुन एव अद्रि सीम्नि रैवतकशैलप्रदेशे विशेषाद्रृश विशुशोष शुष्कोऽभूदिति यत्, तदेतञ्चि त्रम् । सुभद्राचिन्तया कृशोऽभूदित्यर्थे । ‘अर्जुन कुकुभे पार्थे’ इति विश्व । अत्रार्जुनत्वेऽपि वार्षिकावसरे विकासाभाव इति विरोवस्य पार्थत्वेन प्रमोदाभाव इति श्लेषेणाभासीकरणाद्विरोधाभास । उत वार्षिफावसररूपकारणसत्त्वेऽपि श्लेषभित्तिकाभेदाध्यवसायमूलातिशयोक्तया अर्जुने विकासरूपकार्या नुत्पत्तिरूपा विशेषोक्ति । इत्युभयत्र साधफसाम्याच्छलेषानुप्राणितयोस्तयो सदेहक्र्र ॥ ५६ ॥

 वियतीति । वियत्याकाशेऽशेषासु सकलासु दिक्षु विदिक्षु दिक्सधिषु वियोगेन सुभद्राचिरहेणैव शिल्पीन्द्रेण चित्रकारिक्श्रेष्ठेन विनिर्मिताया आलिखितायास्तस्या मृगाक्ष्या सुभद्रायास्तडिता ततै समूहस्य च भेद विशेष धन जयोऽर्जुनो न सविविंदे न ज्ञातवान् । विदे कर्तरि लिट्। अत्र तडिता सुभ द्राया व्यक्तितो भेदे प्रतीयमानेऽपीमास्तङित इय सुभद्रेति विशेषज्ञानाभावस्य गुणसाम्यप्रयुक्तत्वात्सामान्यालकार । ‘सामान्य गुणसाम्येन विशेषो नोपल क्ष्यते’ इति लक्षणात् । उपजाति ॥ ५७ ॥