पृष्ठम्:चम्पूभारतम्.pdf/१११

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१०९
तृतीय स्तबक ।

अवतार्य सा भुवि कुमारम[१]वादथ वभ्रवाहन इति प्रथितम् ॥ ४२ ॥
 [२]असावहपूर्विकया प्रशसता सुतोदय शोभनमीश्वरार्थिनाम् ।
 ददौ तथा दक्षिणदेशवासिना तमेव दायादमुदारतल्लज ॥ ४३ ॥

 [३]इति स तत्र कानिचिद्दिनान्युषित्वा प्रयामीति भाषितस्य पक्ष्मावलम्बिबाष्पमेवोत्तरयन्ती प्रेयसी ग्हसि दृढालिङ्गनतरगितवल्कलोत्तरीयसर्मरसहाध्यायि[४] सीत्कृति पुलकझर्झरे [५]कपोलतले परिचुम्व्य तस्या कथचिदुदञ्चितानुमतिर्निर्गत्य रक्षोयोधिभिरिक्ष्वाकुपतिसेनाध्यक्षैरुत्पाटिताना मलयदर्दुरमहेन्द्रपादाना मूलशिलातलप-


दिवसे दिने हृदि हृत्ये वक्षसि या स्थित दयित प्रियमर्जुनमिव स्थित बभुवाहन इति नाम्ना प्रथित प्रसिद्ध कुमार पुत्रमवतार्य जनयित्वा अवरोध्येति च । भुव्य वान्निहितवती पुपोषेति च । असह्यत्वे भुवि भार निक्षिपन्तीति भाव । दबाते कर्तरि लुट् । अत्र बभुवाहनेऽर्जुनलोत्प्रेक्षया तदीयशौर्यधैर्या दियापग्दुणसपत्तिप्रतीतेरलकारेण वस्तुध्वनि । अत्र दुबोधविगृम्भिता नृसिहकु स्पृष्टयो विस्तरभयान्न लिखिता । प्रमिताक्षरा पृत्तम् ॥ ४२ ॥

 असाविति । उदारतहजो दातृषु प्रशस्तोऽसावर्जुन । ‘मतल्लिका मच चिका प्रकाण्डमुद्धतक्कजौ । प्रशस्तवाचकान्यमूनि’ इत्वमर । अह पूर्वमह पूर्व मिति बुब्धा अह्पूविक्या । शोभन शुभकर मुतस्य बभ्रुवाहनस्योदयमुत्पत्ति प्रशसता स्तुपताम् । किचेश्वर स्वेष राजानमथयन्ति याचन्तीति ईश्वरा र्थिना दक्षिणदेशवामिना जनानाम् । तेभ्य इत्यर्थ । शेषत्वविवक्षया षष्ठी । त दायाद सुत बभ्रुवाहन ददावेवेति योज्यम् । निसर्गवदन्याना न मिमप्य देयमिति भाव । अत्रोदारताज इति विशेषणस्य प्राणेभ्योऽपि प्रियत्वेनादेय स्यापि पुत्रस्य दानवराभिप्रायगर्भल्लात्परिकरालङ्कार । वशस्थवृत्तम् ॥ ४३ ॥

 इतीति । इत्युक्तप्रकारेण सोऽर्जुन तत्र पाण्डयनगरे कानिचित्कतिपयानि दिनान्युषित्वा स्थित्वा प्रयामि गच्छामीति भाषितस्य वचनस्यार्जुनोक्तस्य पक्ष्म णोरत्रलम्यि वर्तमानम् । न तु पक्ष्मभ्या पतदित्यर्थ । तथा सति पत्युरमदलक रत्वादिति भाव । बाष्प नयनजलमेवोत्तरयन्ती प्रत्युत्तर कुर्वन्ती रहस्येकान्ते दृढमालिङ्गनेन तरगितैर्जनितैरुत्तरीयवल्क्लस्य मर्मर्ध्वनिभि सहाध्यायिन्य सदृश्य सीत्कृतय सीत्फ़्अरा दु खजनिता यस्यास्तथोक्ता प्रेयसी चित्राङ्गदा पुलकै झर्झरे विषमे तस्या कपोलतले परिचुम्ब्य क्थचिदतिकष्टेनोदब्धिता कृतानुमतिर्गमनाभ्यनुना यस्य तथोक्त सन् निर्गत्य । पाण्डयनगरादिति भाव । रक्षोभि सह युध्यन्त इति तथोक्त्तै । इक्ष्वाकुकुलपते रामस्य सेनाध्यक्षै


  1. ‘अभाव्' इति पाठ
  2. अय श्लोको न दृश्यने क्कचित्
  3. इति तत्र दिनानि कानिचित्’ इति पाठ
  4. ‘सीत्कारम्’ इति पाठ
  5. ‘कपोले’ इति पाठ