पृष्ठम्:चम्पूभारतम्.pdf/१०

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
प्रथम स्तबक।


अन्ते स्थिति विदधतामबलाजनाना
मास्यानि जेतुमखिलानि किलात्मभासा ।। ११ ।।

या खलु पुरा कुरुधराधिपापराधसमेधितक्रोधेन हलधरेण निजायुधेन हठात्कर्षणशिक्षया समुत्क्षिप्तदक्षिणक्षितिंभागा तदीयभुवनभूषणायमाना भोगेवतीमात्मना विजेतु किंल भागीरथीपाथ येनावतीर्यं कृतप्रस्थानेवाद्यापि परिदृश्यते ।

उपेत्य ता पाण्डुरुदारविक्रम प्रजामन पल्ल्वयन्प्रशासनात् ।
यश प्रकाशैर्यमुनासखीसवैर्निनाय लोक निजनामवाच्यताम् ॥१२॥


आत्मभासा निजसौन्दर्येण ( करणेन ) अन्त स्थिति प्राकारान्तर्वास विदधता कुर्वता तत्र वर्तमानानामबळजनाना स्त्रीजनानामखिलान्यास्यानि मुखानि जेतुम् । किलेति सभावनायाम् । परिखा वक्ष्यीभूतजळदुर्गमवतीर्य तीर्वा प्राका रभित्तिमभित सालस्य सर्वप्रदेशेषु । ‘अभित परित -' इत्यादिना द्वितीया । परिवेष्टयन्ति व्याप्नुवन्ति । अत्र पङ्कजप्राकारपरिवेष्टनस्यान्त स्थिताङ्गनावदनज यफलकत्वोत्प्रेक्षणात्फलोत्प्रेक्षा ॥ ११ ॥

 येति । या पुरी पुरा पूर्व कुरुधराधिपस्य दुर्योधनस्यापराधेन निजपुत्रीह रणसाम्बबन्धनात्मकेन समेधित प्रवृद्ध कोधो यस्य तेन हलवरेण बळरामेण (कर्मा ) निजायुधेन हलेन (करणेन) हठाद्वलाकर्षणात्मिकया शिक्षया समु क्षिप्त उदृतो दक्षिण क्षितेर्भूमेर्भागो यस्यास्तथोक्ता सती। अतएव तस्य बल रामस्येद तदीय भुवन पाताललोक । तस्य शेषावतारत्वादिति भाव । तस्य भूषणमिवाचरन्तीं भूषणायमाना भोगवतीं नाम पुरीमात्मना निजस्खरूपेण विजेतु किल जेतुमिवेत्युत्प्रेक्षा । वार्तासभाव्ययो किल' इत्यमर । भागीरथ्या गझया उत्तरभागस्थिताया पाथ पथेन जलमार्गेणावतीर्यं कृतप्रस्थाना स्वीकृत प्रयाणेवेत्युत्प्रेक्षा । अद्यापि परिदृश्यते खलु । लोकैरिति शेष । अत्र बलराम परिभूतायास्त जेतुमशकायास्तत्पक्षजयोद्योगकथनात्प्रत्यनीकालकार । तस्य चाङ्गाङ्गिभावेन सकीर्णाभ्यामुत्प्रेक्षाभ्या ससृष्टि । तस्याश्च वृत्यनुप्रासेनैकवाच कानुप्रवेशसकर ॥

 उपेत्येति । ता उक्तविशेषणविशिष्ट हस्तिनापुरीमुदारो महान्विभ्रमो यस्य तथोक्तः पाण्डुर्नाम राजा कुरवश्य उपेत्य प्राप्य प्रजाना मन प्रशासनात्प्रकृति परिपालनाद्धेतो पह्वयन् । रञ्जयन्नित्यर्थं । यमुनासख्या गङ्गया सखाय सदृशाते । ‘राजाह सखिभ्यष्टच्' । तद्वद्धवलैरिति यावत् । यशस कीर्ते


१ ‘अतस्थितिभ्’ इति पाठ २ शिक्षया ’ इत्यनन्तर ‘क्षणेन’ तक्ष’ च त्यधिक कन्चिद् ३. ‘भागतया’ इति पाठ ४ ‘भोगावतीम्' इति पाठे ५ ‘नि’ इति नास्ति कचिव ६ ‘दृश्यते’ इति पाठ