पृष्ठम्:चन्द्रालोकः (राकागमव्याख्यासहितः).djvu/७८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्वितीयों मयूखः । इदानीमुक्तदोषाणामपवादै वक्तुं दोषाङ्कुशलक्षणमाह- दोषमापतितं स्वान्ते प्रसरन्तं विशृङ्खलम् । निवारति यत्रेधा दोषाङ्कुशमुशन्ति तम् ॥ ४० ॥ देषमिति । स्वान्ते आपतितं ज्ञातं विशृङ्खलं प्रसरन्तं प्रतिबन्धकाभावेनार्था- ऽवबोधरसोत्पत्तिप्रतिबन्धेन वा दोषत्वेन निश्चित त्रेधा प्रकार(त्रय)रूपेण निवारयति, स दोषाङ्कशो दोषापवाद इत्यर्थः ॥ ४० ॥ प्रकारन्नयमाह- दोषे गुणत्वं तनुते दोषत्वं वा निरस्यति । भवन्तमथवा दोष नयत्यत्याज्यतामसौ ॥ ११ ॥ दोष इति । गुणत्वज्ञानं कविसमयकृतदोभावत्वज्ञान इलेषानुप्रासादिनिर्वा । तयाऽऽवश्यकत्वरूपात्याज्यत्वज्ञानं वेत्यर्थः ॥ ४१ ॥ तत्राद्योदाहरणमाह- सुखं चन्द्रश्रियं धत्ते श्वेतश्मश्रुकराङ्करैः । अत्र हास्यरसोद्देशे ग्राम्यत्वं गुणतां गतम् ॥ ४२ ॥ मुखमिति । हास्यरसपोषकत्वाद् ग्राम्यत्वस्य गुणत्वम्, स्त्रीविदूषकाद्युक्तौ च । एवं कुपितोकौ वर्णनीये नृसिंहादौ रौद्ररसपोषकत्वात् श्रुतिकटुत्वं कष्टत्वं च गुणः । एवं तत्तच्छायाभिशे बोद्धरि वकरि वाऽप्रतीतत्वम् । एवमश्लील सुरतगोष्ठीषु शमकथास वैराग्यजनिकास शापायुक्तौ च गुणः । *नियतार्थप्रतिपत्तैव्यजस्तुत्यादिपर्यवसायित्वे सन्दिग्धं गुण: (१) । हर्षभयादियुकवकृवाक्ये न्यूनाधिकपदत्वं वा गुणः । यथा- ममासनाधे भव मण्डन, न न, प्रिये ! मदुत्सङ्गविभूषणं भव । अहं भ्रमादलपमङ्ग ! मृष्यतां विना ममोरः कतमत्तवासनम् ॥ लाटानुप्रासेऽर्थान्तरसङक्रमितवाच्ये विहिवानुवादे च कथितपदत्वं गुणः । स्वरूपा- छ्यापको यत्रान्तिमो भविस्तत्र पतत्प्रकर्ष गुणः । एवमन्यन्नायूद्यम् ॥ ४२ ॥ द्वितीयस्य दोषत्व वा निरस्यति' इत्यस्योदाहरणमाह- तव दुग्धाब्धिसम्भूतेः कथं जाता कळङ्किता ।। कवीनां समयाद्विद्याविरुद्धोऽदोषतां गतः ॥ ४३ ॥ तवेति । चन्द्रस्य दुग्धसमु सम्भवस्य कविसमयेन दोषाभावमात्रं न गुणत्वम् , रसादिपरिपोषकत्वाभावात् । एवं पुनरुकिरपि क्वचिन्न दोषः । यथा-अवतंसकुण्डल. शेखरज्यादिपदानां कर्णावतंसकर्णभूषणशिरोऽवतंसधनुज्र्यावचित्वेऽपि । अस्याः कण. ( १ ) चिहान्तर्गतं नास्ति क-पुस्तके ।