सामग्री पर जाएँ

पृष्ठम्:चन्द्रालोकः (राकागमव्याख्यासहितः).djvu/२२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[ १० ] एतदपि न विस्मर्तव्यं यदयं मिथिलाधिपस्य भैरवसिंहस्य राज्यसमये प्रसिद्धिं लब्ध वान् । ख्रिस्ताब्दपञ्चदशशतकमध्यं यावत् समयो भैरवसिंहभूपतेरिति मिथिला- प्रत्नतत्त्वविदो निगदन्ति । विजयते बलवती किंवदन्ती यत् कविवरविद्यापतेरयमेकदा गृहं गत्वा तदातिथ्यं स्वीकृतवान् । पक्षधरहस्तलिखिते विष्णुपुराणे तल्लिपिकाल एवं दत्त आस्ते-- “बाणैर्वेदयुतैः सशंभुनयनैः संख्यां गते हायने श्रीमद्गौडमहीभृतो गुरुदिने मार्गे च पक्षे सिते ।” व्यक्तमेवायं ३४५ मितो लक्ष्मणसंवत्सरः, (१११९+ ३४५) १४६४ ख्रिस्ताब्देन तुल्यः । एतत् सर्वमालोचयतां स्पष्टमेवाभासते यदये ख्रिस्ताब्दपञ्चदश- शतक्रमध्ये मिथिलामध्युवास । कथमिव त्रयोदशशतकारम्भे से बलाक्षेतव्य इति वयं न जानीमः । | चन्द्रालोककविना जयदेवेन पक्षधरस्यैकात्मता सिद्धा स्यादित्याशयैव स्वीकृतवा- नेतावन्तमायास मनमोहनचक्रवर्तिमहोदयः । किन्तु कथं विस्मृतवान् यदभिन्नयोः पुरुषयोः पितरावप्यभिन्नौ भवतः । अपि पक्षधरस्यापि जननी सुमित्राभिधाऽभूत् ? अप्यस्य जनको महादेवयाज्ञिकोऽभूत् ? अपि प्योमिति वक्तुं शक्नोति ? यद्येवं तहिं वृथैवाऽयं विततो यत्नो वस्तुतो भिन्नयोरभिन्नत्वं साधयितुम् । पीयूषवर्षोऽपि जयदेवः प्रमाणप्रवीण आसीदित्यत्र नाऽस्ति काऽपि विप्रतिपत्तिः । तद्वन्थद्वयमेव तत् स्फुटं प्रमाणयति। एतत् पक्षधरभिन्नत्वेऽपि संभवत्येव । बलवविरुद्धप्रमाणावरुद्धाध्वी कथमिव कोऽप्युत्सहेत तावेको कर्तुमिति वयं नैवावधारयामः । अहो ! गतानुगतिकत्वं लोकस्य यत् कस्मिन्नपि समये परप्रत्ययनेयबुद्धयः सुधियोऽपि संजायन्ते । पीयूषवर्षजयदेवस्य ग्रन्थद्वयम् अद्यावधि पण्डितप्रकाण्डस्थाऽस्य महाकवेर्ग्रन्थद्वयमेवोपलब्धं चन्द्रालोकः प्रसन्न- राघवं चेति ।। (१)चन्द्रालोकः-अयमस्य चन्द्रालोकः स्वकीयालोकेन चिराद् धवलयन्नास्ते भारतधरावलयम् । अलङ्कारागमपारावारे विजिहीषूणामयं परमहर्षमादधानो विदधाति काञ्चित् परिचितिं ययोत्साहिताः सुखेनारोहन्ति लघुबुद्धयोऽप्यलघुकान् ग्रन्थपोतान् । अयं चन्द्रालोको दशमिर्मयूखैः प्रकाशमानो विगलितविस्तर सुविशदं विद्योतयते साहित्यशास्त्रस्य समस्तवस्तुजातम् । वाग्विचाराभिधे प्रथमे मयूखे मङ्गलाचरणादिभिः प्रक्रम्य काव्यस्य हेतुलक्षणे च लक्षयित्वा रूढयौगिकादिभेदानां शब्दानां सौदाहरणः सयुक्तिकश्च संक्षेपेण विचारः कृतः । द्वितीये मयूखे दोषनिरूपणाख्ये काव्यदोषाणां लक्ष- णोदाहरणानि प्रदश्यं प्रदश्र्य दोषाङ्कुशभेदानपि चान्तर्निर्दिश्य साधु समाधान विहि- तम् । लक्षणनिरूपणाभिधाने तृतीये मयूखे नाट्यशास्त्रीयग्रन्थेषु प्रतिपाद्यमानानां लक्षणानां कानिचित् सोदाहरणानि प्रदर्शितानि । चतुर्थे मयूखे प्राचामाचार्याणां मतेन ।