पृष्ठम्:चन्द्रालोकः (राकागमव्याख्यासहितः).djvu/२१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[ 8 ] | मिथिलायां बभूव पण्डितप्रकाण्डो जयदेवमिश्रो नाम येनाधिगतं विद्वत्परिषद कारणैरनेकैः पक्षधर इति प्रतिष्ठातिशयास्पदमुपपदम् । अस्य ग्रन्थेषु तत्त्वचिन्तामण्या- लोकः प्रसिद्धतमः । अयं स्वयं कविः सन् कविभिर्वहुभिः संपादितस्नेहोऽनेहसो बहून् नयते स्म । आलोक इति ग्रन्थाभिधानान्यपदसाम्यात् कवित्वतार्किकत्वयोः सामाना- धिकरण्याच्च स एवार्य चन्द्रालोककविर्जयदेव इति सुतरां सम्भवति भ्रान्तेरवकाशः। सौभाग्येन नैवावहद् जयदेवाभिधानं ध्वनिकार आनन्दवर्द्धनः । यदि स तथाऽभविष्यद् ध्वन्यालोककरः कविरानन्दवर्द्धनो नियतमेवैतैरयमपि जयदेवत्वेन गृहीतोऽभविष्यत् । यदि कोऽपि कविः स्वकाव्ये प्रमाणप्रवीणमात्मानं प्रमाणयति न खलु तेन तदभिधानं कमपि तार्किकं स एवायमिति वक्तुं कोऽपि मतिमान् प्रतिपद्येत । वर्तमाने सति प्रबल तरे प्रमाणान्तरे, साहाय्यं सम्पादयितुं शक्नुवन्ति युक्तय ईदृश्यः ।। अतो यत् पक्षधरो जयदेवः कमप्यालोकोपपदं ग्रन्थं लिखितवान् यच्च पीयूषवर्षों जयदेवः प्रसन्नराघवप्रस्तावनायां स्वकीयं प्रमाणप्रवीणत्वमुपन्य स्तवान् तत् सर्वं प्रमाणा- न्तरं विना तदुभयाभेदसाधनार्थमकिञ्चित्करमेव । तद् युक्तमिदानी प्रमाणान्तर- प्रामाण्यमेव परीक्षितुम् । । अस्य पक्षधरस्य प्रत्यक्षालोकान्ते लेखको लिपिकालमैवं लिखति-"शुभमस्तु शकाब्दा ॥ लसं १५०९” । अत्र मनमोहनचक्रवर्तिमहोदयः कल्पयति यदस्यां १५०९ इति संख्यायां शून्यं प्रमादेन न्यस्तं भवेत् , तदयं नियतं १५९ मितो लक्ष्मणाब्द एव । लक्ष्मणाब्दः १११९ मिते ख्रिस्ताब्दे समारभ्यते । तदर्य संकलनेन १५९ मितो लक्ष्मणाब्दः १११९ + १५९=१२७८ मितेन ख्रिस्ताब्देन तुल्यः। सतीश चन्द्रविद्याभूषणो लर्स इत्येतस्य वत्सर इत्येवार्थसङ्केतमूरीकुरुते । तत् तत्रत्या १५०९ इति संख्या तन्मतेन शकाब्दद्योतिका।शकाब्दः ७८ मितात ख्रिस्ताब्दादारभ्यते । तदर्य १५०९+ ७८=१८५७ मितेन खिस्ताब्देन तुल्यो भवति । लिपिकरणकाललेखने लेखकस्याभूत् प्रमाद इत्यत्र नैवास्ते बिन्दुरपि सन्देहस्य । किन्तु कुत्र सोऽभूदिति निश्चेतुं नैव शक्यते। चक्रवर्तिप्रवर्तिता शून्यन्यूनत्वकल्पना विकल्पानन्यान् प्रकल्प- यन्ती नैवारोहति चैतनिश्चितिभूमिम् । शून्यन्यूनत्वकल्पनातौ वरीयसीयं स्यात् कल्पना यदयं शकाब्दं दत्त्वा लक्ष्मणाब्दं पश्चाद् दास्यामीति तं लिखितुं विस्मृत- वान् । शकाब्दश्चास्थाने दत्त इति विशेषः कृतः । भवतु सर्वमेतत् । इदमत्र पृच्छामः कुस्मादेतावानायासः स्वीक्रियते है किन्तु सेत्स्यति तस्य लिपिकालाकलनेन ? यद्यस्य ग्रन्थो १५८७ मिते शकाब्दे प्रतिलिखितोऽभूत्, न तेन किंच्चिदासाद्यते निश्चेयनिश्चिति- करणम् । | यदि चक्रवर्तिपदमनुवर्तमाना वयं लिपिकालं १२७८ मितं खिस्ताब्दं कल्पयामः तर्हि पक्षधरसमयं तत्पूर्वमेवावधारयितुं बलात्प्रवृत्ता भवेम। न खलु न कथयन्ति पण्डिता यत् पक्षधरादधीतवन्तौ वासुदेवसार्वभौमो रघुनाथशिरोमणिश्च । चैतन्यमहाप्रभुश्चा- भूत् वासुदेवसार्वभौमस्यान्यतमः शिष्यः । अतो नैवेयत्पूर्वं भवितुमर्हति पक्षधरः ।