पृष्ठम्:चन्द्रालोकः (राकागमव्याख्यासहितः).djvu/१७९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

राकागमसहिते चन्द्रालोके- शफिकल्पनाल्लक्षणोच्छेदापत्तिः । किञ्च-व्यङ्ग्यं द्विविधम्, रसरूपं वस्त्वलाररूपं च। तत्र रसरूपस्य तु न वाध्यता । रसशृङ्गारदिपदप्रयोगे तदज्ञानात् । विभावादि प्रयोगे तज्ज्ञानाच्च । अतोऽन्वयध्यतिरेकाभ्यां विभावाद्यभिधानेनैव प्रतीयत इति न कस्यापि वाच्यः । मुख्याबाधादिलक्षणाहेत्वभावान्नो लक्षणीयोऽपि । अन्तर- समितीत्यन्ततिरस्कृतवाच्ययोदय लक्षणामलकमेवेति तस्य बस्तुरूपस्यापि न वाच्यत्वसम्भवः । एवं शब्दशक्तिमूलेऽपि व्यङ्ग्यस्यान्तरस्य तेन सहोपमादे- रलारस्य वा शक्तिनियन्त्रणेनैव न वाच्यत्वसम्भवः । अर्थशक्तिमूलेऽभिहितान्वय. वादिमते आकाङ्क्षादिवशी प्रतीयमानोऽन्वयविशेषरूपो वाक्यार्थोऽपि न वाच्यः । तत्र तदुत्तरप्रतीयमानस्य व्यङ्गस्य(१) कथं वाच्यत्वसम्भावना । अन्विताभिधान. बादेऽपि व्यवहारादिसतविषयस्यैव प्रतिभासनादसङ्केतितस्य पदार्थस्य वाक्यार्थस्य तद्विशेषस्य वा 'निःशेषच्युतेश्यादावर्थान्तररूपस्य विध्यादेव्ययभूतस्य कथं वाच्यत्व सम्भावना । कि- व्ययस्य वाच्यत्वं सम्भवति । तस्य वाक्यार्थविल्दत्वात् । गच्छ गच्छसि चेस्यादौ विधिरूपो वाक्या निषेधरूपं व्यङ्ग्यम् । मात्सर्यमुत्सायं विचार्य कार्यमायः समयदमुदाहरन्तु । सेव्या नितम्बाः किमु भूधराणामुत स्मरस्मेरविलासिनीनाम् ॥ इत्यादौ संशयरूपो वाक्यार्थः । शान्तशृङ्गारान्यतरगतनिश्चयगतं व्यङ्ग्यम् । कः शूरताऽनुशय एष रणेऽरयो यत् शैवापद धुरममी निहता वहन्ति । यञ्चेशैरपि भिदा गमितः पुरस्ते मन्तुर्भवत्कुलधुरन्धर एष भानुः(२) ॥ . इत्यादौ वाक्या निन्दा, व्यङ्गया व स्तुतिरिति । एवम् , वाक्यार्थप्रतीत्युत्तरकाले ध्यक्ष्य प्रतीतेः कालभेदेन तस्या न वाच्यत्वसम्भवः । एवम् , वाक्यार्थस्य पदमात्र बोध्यत्वम् , व्ययस्य तु पदतदेकदेशपदार्थ वर्णधटनाप्रकरणादिसहायकूतबुद्धिविशेष- गम्यत्वमिति निमित्तभेदश्च । वाथस्य बोध्यमात्र प्रतीतिः कार्यम्, व्यङ्ग्यस्य च विदग्धचमत्कार इति कार्यभेदः। किञ्च-वाक्यार्थः सवन्प्रति एक एव नियतः, व्यङ्ग्यस्तु 'गतोऽस्तमर्क इत्यादावनेक इति सङ्ख्याभेदः । एवम्, विषयभेदादिनापि स्पष्टै भेदे। (१) पावनत्वस्य-इति क-पुस्तके ।। (३ ) शैवापर्दी शिर( ऋगालो )पदसम्बन्धिनीम् , सन्तुः पूज्यं ज्ञातुः मानयितुरिति यावत् । राजन् ! स्वकीयशूरताविषये किमित्येवं पश्चात्तप्यते भवता, यत्-‘समरे निहताशत्रयो मांसलुब्धश्वगालीदाक्रमणभदौःस्थ्यं वहन्तोऽपि सूर्य में मूलरुष भिख मता' इति । सकळमेतच्चेष्टितं तवैवेति भावः ।...