पृष्ठम्:चन्द्रालोकः (राकागमव्याख्यासहितः).djvu/१७२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पष्ठो मयूखः । १ यथा- दिव्यहरेमुखकुरे विन्ती पर्णति व्योम । चूर्णति चन्द्रः क्रमुकति कनकगिरिः खदिरसारति दिनेशः ॥-॥ १२ ॥ शान्तरसमाह- निर्वेदस्थायिकः शान्तः सत्सङ्गादिविभावभूः ।। क्षमादिकाऽनुमावोऽयं स्तम्भादिव्याभचारिकः ॥१३ ॥ निवेदेति । निवेदश्च तत्वज्ञानजिहीर्षादिभिः स्वविमानः । सत्सङ्गादिभिरुद्दीपन- विभावैः क्षमादिमिरनुभावैः स्तम्भादिव्यभिचारिभावैरभिव्यको निवेदः शान्तरस इत्यर्थः । तदुक्तम्-- सम्यग्ज्ञानसमुत्थानः शान्तो निःस्पृहनायकः । गधेष्यविपरित्यागात्सम्यग्ज्ञानस्य चोद्भवः ॥ अन्वे -“शास्तस्य निखिलविषयपरिहारजनितात्ममात्रविमानन्दरूपतया में तस्य निर्धदः स्थायिभावः सम्भवति । तस्य विषयेऽप्य सत्प्रत्ययरूपतयाऽऽत्मावमानन- रूपतया सर्वचित्तवृत्तिविरामरूपतया वा स्थायित्वासम्भवत् । तेन शमोऽस्व स्थायी । स व निरीहावस्थायामानन्द इत्याहुः । यथा- अशीमहि वयं भिक्षामाशावासो वसीमहि । शयीमहि महीपृष्ठे कुर्वीमहि किमीश्वरैः ॥--॥ १३ ॥ भावाना- रतिर्देवादिविषया सन्ति च व्यभिचारिणः । वेद्यमाना निगद्यन्ते भावाः साहित्यवेदिभिः ॥ १४ ॥ रतिरिति । देवादिविषयिणी रतिभावः। आदिना नृपमुनिगुरुभ्रातृसुतविषयापि । तथा वक्ष्यमाणा निवेदादयो व्यभिचारिभावाः यदा वेयमानाः प्राधान्येन प्रकश्मिानाः काव्यत्यया भवन्ति, तदा तेऽपि भविपदवाच्याः प्रधाना भवन्तीत्यर्थः । तदा । स्त्यादीनां स्थायित्वम्, किन्तु भविशवाच्यत्वमित्याशयः । यथा- मातर्भवानि मम पूर्वभवानि यानि पापानि तानि तव दर्शनतो गतानि । एतावदेव मम देवि ! परन्तु भूयाचितं मुरारिचरणे स्थिरतामुपेवात् ॥ नृपविषया यथा- कामनीयकमधाञ्जतकाम काममक्षिमित्वेक्ष्य तडीयम् । औशिकः स्वमखिलं परिपश्यन् मन्यते स्म सलु कौशिकमेव ॥ सुनिविषया यथा- तद्विमृज्य मम संशयबिल्यि स्फीत्मत्र विषये सहसाऽवम् । भूयतां भगवतः श्रुतिसारैरय वाग्भिरघमर्षणक्रगभिः ।