पृष्ठम्:चन्द्रालोकः (राकागमव्याख्यासहितः).djvu/१५८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पञ्चमो मयूखः । अत्र गुणो दोषत्वेन वर्णितः । | अनङ्गतापप्रशमाय तस्य कमाना मुहुरामृणालम् ।। मधौ मधौ नाकनदीनलिन्यो वरं वदन्त शिशिरेऽनुरागम् ॥ अत्रे शिशिरेऽनुरागो दोनोऽपि गुगत्वेन । ‘सूयार्थ सूचनं मुद्रा प्रकृतार्थपरैः पदैः। वर्णनोयपदेन नामसूचनं मुद्रालङ्कारः। यथा-नितम्वनुर्वी तरुणी दृग्युग्मविपुला च सा ।। इदं छन्दःशास्त्रनाम्नोऽपि सूचनोयत्वेनानुष्टुप्छन्दोभेइल्य विबुलेति नाम । नायिका वर्णनं च पदेन सूच्यते । क्रमिकं प्रकृतार्थानी न्यास रत्नावली विदुः । सूक्ष्म पराशयाभिज्ञेतरसाकृतचेष्टितम् ॥ मयि पश्यति सी केशैः सीमन्तमणिमावृणोत् । युक्तिः पराभिसन्धाने क्रियया मर्मगुप्तये । त्वामालिखन्ती दृष्ट्वाऽन्यं धनुः पौष्पं करेऽलिखत् । लोकप्रवादानुकृतिलकोकिरिति भण्यते ॥ सहस्व कतिचिन्मासान् मीलयित्वा विलोचने । छेकोकिर्यत्र लोकोफेः स्यादन्तरगर्भता ।। भुजङ्ग एवं जानते भुजङ्गचरणं सखे ! ॥ इति । अलङ्कारशेखरे तु- ‘उपमारूपकोत्प्रेक्षा समासोचिरपतिः । समाहित स्वभावश्च विरोधः सारदीपकौ ॥ सहोकिरन्यदेशत्वं विशेषोकिर्विमावना । एवं स्युरर्थालङ्काराश्चतुर्दश ने चापरे ॥ इति । एतेषामेवालङ्कारत्वं नान्येषामत्युक्यादीनाम् । तेषां तु वस्तुत्वमात्र मित्युक्तम् ॥ ११६ ॥ आलङ्कारिकैवेद्यानन्यान् सप्तालङ्कारानाह श्लोकद्वयेन- रसभावतदाभासभावशान्तिनिवन्धना । रसवत्प्रेयऊर्जस्विसमाहितमय भिदा ॥ ११७ ॥ भावानामुदयः सन्धिः शबळत्वमिति त्रयः ।। अलङ्कारानिमान सप्त केचिदाहुर्मनीषिणः ॥ ११८ ॥ रसभावेति । केचिदिति पूजार्थे न निषेधार्थम् । यत्र रसो रसान्तरस्य भावस्य वाङ्गत्वेन कथ्यते तत्र रसवडलङ्कारः। निर्वेदादित्रयस्त्रिाझेदो भावो गुरुनृपदेवतादिविषय- रतिरूपो भावश्च यत्र पराङ्गत्वेन कथ्यते तत्र प्रेयोऽलङ्कारः । अनौचित्यप्रवृत्तौ रसभावौ