पृष्ठम्:चन्द्रालोकः (राकागमव्याख्यासहितः).djvu/१४७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

राकागमसहिते चन्द्रालोके-

  • -*-*-*-*-*-
  • -*-*-*-*-

यथासङ्खथमिति । द्विधार्थाश्चेत् क्रमादेकैकमन्विता:, अर्थाः क्रियाकरिकरूपाः द्विविधा अर्थाः इत्यर्थः । तेन कारकाणां क्रियाणां वा क्रमेण कारकेषु क्रियाका वाऽन्वये यथासङ्ख्यालङ्कारः । शत्रुमिति लक्ष्यम् । शत्रुमित्रद्विषत्पक्षाणां जयादिषु यथासङ्ख्येना- ऽन्वयात् । यथा वा- सानन्दं तनुजाविवाहनमहे भीमः स भूमीपति- | वैदभनिषधेश्वरौ नुपजनाऽनिष्टोक्तिनिष्टये । स्वानि स्वानि धराधिपाश्च शिबिराण्युद्दिश्य यान्तः क्रमा- | देको द्वौ बहवञ्चकार सृजतः स्मातेजिरे मङ्गलम् ॥ अन्यत्र तु-'यथासङ्ख्यमनूश उद्दिष्टानां क्रमेण यत् ।' यथा बा- उन्मीलन्ति नलैलुनीहि, वहति स्वीयाञ्चलेनावृणु क्रीडाकाननमाविशन्ति वलयाणैः समुत्त्रासय । इत्थं वजुलदक्षिणानिलकुहुकण्ठीषु साङ्केतिक- | व्याहारः सुभग ! त्वदीयविरहे तस्याः सखीनां मिथः(१)॥-॥९२॥ पर्यायालङ्कारमाह- पर्यायश्चेदनेकत्र स्यादेकस्य समन्वयः । पनं मुक्त्वा गता चन्द्र कामिनीवदनोपमा ।। ९३ ।। पर्याय इति । अत्रापि क्रमेणेत्यनुषज्यते । तेन विशेषालङ्कारच्यावृत्तिः । अने. कत्र क्रमेणैकान्वये पर्यायालङ्कारः। पद्ममिति लक्ष्यम् । पश्चन्द्रयोः क्रमेणोपमाया अधिरित्वेनान्वयात् । यथा वा- हित्वा दैत्यरिपोरुरः स्वभवनं शून्यत्वदोषस्फुटा- | सीदन्मकेंटकीटकृत्रिमसतच्छत्रीभवत्कौस्तुभम् । . उज्झित्वा निजसद्म पद्ममपि तद् व्यक्तावनद्धीकृत लूतातन्तुमिरन्तरद्य भुजयोः श्रीरस्य विश्राम्यति ॥ यथा वा- प्रतिप्रतीके प्रथम प्रियायामथान्तरानन्दधासमुद्रे । ततः प्रमोदाश्रुपरम्पराया ममज्जतुस्तस्य दृशौ नृपस्य (२) ॥ अन्यत्र तु-'एकस्मिन्नप्यनेकं वा पर्यायः सोऽपि संमतः । यथा- ( १ ) पद्येऽस्मिन्पूर्वाधे 'वजुली (चेतसा अशोका वा ) उम्मीलन्ति, मलया- निळो वहति, कुहुकण्ठ्यः (कोकिलाः) क्रोडाकानन विशन्तस्यर्थयोजना ।। (२) एतत्पादनन्तरच्च-मुखे हारावामियनयुगले कणभर नितम्बे पत्राली सतिलकमभूत्पाणिकमलम् । इत्यादावपि श्लेषेण । इत्येतदधिकं वर्तते ३-पुस्तके ।