पृष्ठम्:चन्द्रालोकः (राकागमव्याख्यासहितः).djvu/१४६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पञ्चमो मयूखः । १०:००, १ जुलाई २०१९ (UTC)१०:००, १ जुलाई २०१९ (UTC)१०:००, १ जुलाई २०१९ (UTC)१०:००, १ जुलाई २०१९ (UTC)१०:००, १ जुलाई २०१९ (UTC)~~ सारालङ्कारमाह- सारो नाम पदोत्कर्षः सारतया यथोत्तरम् । सारं सारस्वतं तत्र काव्यं तत्र शिवस्तवः ॥९० ॥ सार इति । नाम त्वथे । सारालङ्कारस्तु सारताया यथोतरं पदोत्कर्षः अस्यन्तो- त्कर्ष (१) *इत्यक्षरार्थः । सारमिति । संसार इति शेषः । सारस्वतं वाङ्मयम् ।। यथोचरमुत्कर्ष*कथने सारालङ्कार इति भावः । सारस्वतकाव्यशिवस्तवानां यथो तर. मुत्कर्षकथनात् । यथा वा- | लोकनजि यौर्दिवि चादितेया अप्यादितेयेषु महान्महेन्द्रः । किर्तुमर्थी यदि सोऽपि रागात् , जागर्ति कक्षा किमतः पराऽपि । यथा वा- त्वलीलोन्मीलितेऽस्मिञ्जगति चरमिदं सारमापि मल्यै- स्तन्न नैवर्णिकोऽभूदपि धरणिरतत्र वेदप्रवीण: । वत्राऽप्यम्यस्तशास्रस्तदपि च सनिजाचारचातुर्यचुचु- स्तत्रापि श्रीपते ! त्वत्पदमजमपरस्तत्परं नैव किञ्चित् ॥ अयं च इलाध्यगुणोत्कर्षकथनेन अश्लाघ्यगुणोत्कर्षकथनेन च द्विविधो बोध्यः । द्वितीयो यथा- पृथ्वी तावत् त्रिकोणा नगनगरनामरुद्धं तदध । तत्राप्यधं युवत्यः शिशुगतवयसा दूषितं तस्य वार्धम् । तत्र त्याज्यैः स्वपुत्रश्वशुरगुरुजनैदूषितं तस्य चाधे | मिथ्यावादोऽङ्गनानां मुखरमुखः पुंश्चलो पुवाळीति ॥-॥१०॥ उदारसारालङ्कारमाह- उदारसारश्चेद्भाति भिन्नोऽभिन्नतया गुणः । मधुर मधु पीयूषं तस्मात् तस्मात्कवेवैचः ॥ ९१ ॥ उदारेति । उत्कृषधायकोत्तरोत्तरगुणस्य भिन्नस्याप्यभेदप्रत्यायकशब्दसममि. व्याहारे उदारसारालङ्कारः । मधुरमिति लक्ष्यम् । अन्न मधवपेक्षया काव्यनिष्ठमाधुर्य, मधिकं कथ्यमानं रसनाग्राह्मश्रोत्रीत्वेन वस्तुतो भिन्नमपि मधुर शब्दमहिम्नैकमेव भासते ॥ ११ ॥ यथासङ्ग्यालङ्कारमाह- यथासङ्ख्यं द्विधाथश्चेत् क्रमादेकैकमन्विताः ।। शत्रु मित्रं द्विषत्पक्ष जय रञ्जय तर्जय ॥ ९२ ।। (१) चिहान्तर्गत ख-पुस्तके न विद्यते ।