पृष्ठम्:चन्द्रालोकः (राकागमव्याख्यासहितः).djvu/१०९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

राकागमसहिते चन्द्रालाकै- =

इदमभेदरूपकं त्रिविधम् ।। अस्या सुखेन्दुना लब्धे नेत्रानन्दे किमिन्दुना । साध्वीयमपरा छक्ष्मीरसुधासागरोदिता ॥ अयं कलङ्किनश्चन्द्रान्मुखचन्द्रोऽतिरिच्यते । ६ त्रिविधं तद्रूप्यरूपकमित्याहुः । अन्न न्यूनत्वाधिकत्वोक्तौ कथमभेदभानम् । प्रतीपव्यतिरेकाभ्यां चास्य को विशेष इत्यपि चिन्त्यम् (१) । तस्मादाद्यमेकदेशविवति रूपकम् । अन्यच्च विशेषोत्यत्युक्तिप्रतीपव्यतिरेकालङ्कारान्तर्गतमिति युक्तम् । एवञ्च 'एकगुणहानी गुणसम्याधिक्यथोर्विशेषोकिरिति वामनोचिर पि सङ्गच्छते । अत एव, किमसुभिग्लै पितैर्जङ ! मन्यसे मयि निमज्जतु भीमसुतामनः । मम किळ श्रुतिमाह तदथिकां नलमुखेन्दुपरां विबुधः स्मरः ॥ इत्यम्न प्रसिद्धचन्द्रो न निर्याणकालिकमनःप्रवेशतात्पर्य विषयः, किन्तु नलमुखचन्द्र एवेति व्यतिरेकालङ्कार एव ।। एतत्तहस्तरुणि ! राजति राजजम्बूः | स्थूलोपलानिव फलानि विमृश्य यस्याः । सिद्धस्त्रियः प्रियमिदं निगदन्ति दन्ति- यूथानि केन तरूमारुरुहुः पथेति ॥ इत्यादाविव रूपकव्यञ्जको वेति कृतमप्रसकचिन्तनया ॥ १८ ॥ समानधर्मयुक्साध्यारोपात्सोपाधिरूपकम् ।। उत्सित्तक्षतिभृल्लक्षपक्षच्छेदपुरन्दरः ॥ १९ ॥ समानेति । समानधर्मयोगेन साध्यो यत्र प्रकृतारोपस्तत्सोपाधिरूपकम् । प्रकृता- पनिर्वाहकोऽप्रकृतारोपो यन्नेत्याशयः । उत्सितेति । अत्र ‘क्षितिभृत एवं क्षिति- भृतः, पक्ष एव पक्ष' इत्यप्रकृतारोप एकवाचकानुप्रविष्टः प्रकृतपुरन्दरत्वारोपनिर्वाहकः । एतदेव परम्परितम् ॥ १९ ॥ । पृथक्कथितसादृश्यं दृश्यसादृश्यरूपकम् ।। उल्लसत्पञ्चशाखस्ते भ्राजते भुजभुरुहः ॥ २० ॥ पृथगिति । आरोत्यारोपविषयारोपणीयधर्माणां शाब्दत्वे इत्यर्थः। उल्लसदिति । ११) न्यूनत्वाधिकत्वोकिस्थलेष्वपकर्षोंकषयोविभावनमपि तद्वयतिरिक्त सकल गुणसाधारण्यप्रतीतेरभेददाड्यौपादकत्वेन चमत्कारातिशयमुत्पादयति । प्रतीपक्ष्यति रैकयोश्च सादृश्यगर्भितत्वात्सादृश्यस्यापि भेदघटितत्वाइँद एवं पर्यवसानम् , अभेद. रूपके त्वापाततः सादृश्यप्रतीतो सत्यामपि तन्मूलकाऽभेदप्रतीतेरेव प्राधान्यमित्यभेद एष पर्यवसानम् । अयमेव च ताभ्यामेतस्य विशेषः सुस्पष्ट खेति स सस्थम् ।