पृष्ठम्:चन्द्रालोकः (राकागमव्याख्यासहितः).djvu/१०८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पञ्चमो मयूखः । सिद्धया तदारापात् । द्वितीयं यथा- वेलामतिक्रम्य पृथु मुखेन्दोरालोकपीयूषरसेन तस्याः । नलस्य रोगाम्बुनिधौ विवृद्धे तुङ्गौ कुचावाश्रयतः स्म दृष्टी । अन्न रागे समुद्रत्वारोपः शब्दः । तेन कुचयोः कलशत्वारोपो दृष्टयोर्मजमान(१): बीतादात्म्यारोपश्चार्थ इति । माला यथा- चातुर्यस्य खनिननागुणलीलासुधागृहम् ।। मम विश्रामधरणी शृङ्गाराब्धिरियं प्रिया ॥ यथा वा- अध्याहारः स्मरहरशिरश्चन्द्रशेषस्य शेष- | स्याहेर्भूयःफणसमुचितः काययष्टीनिकायः ।। दुग्धाम्भोधेर्मुनिचुलुकनन्नासनाशाम्युपायः | कायव्यूहः क्व जगति न जागत्यदःकीर्तिपूरः ॥ परम्परितं यथा- तरङ्गिणी भूमिभृतः प्रसूता जानामि शृङ्गाररसस्य सेयम् । लावण्यपूरोऽजनि यौवनेन यस्यां तथोच्चैःस्तनता-धनेन ॥ अन्न भूमिभूदेव भूमिभृत् ,धन एव धनः, उच्चैःस्तनतैव उच्चैःस्तनता' इति धमण. मेकवाचकानुप्रवेशेन श्लेषेण च परम्परितम् । तात्पर्यवशात्समासविरुदानामपि लिष्टपदा- दुपस्थितौ तदूपनिरूपणात् । तस्य प्रकृतरूपकनिर्वाहकत्वात् । आरोश्यारोपविषययोः प्रकृतप्रकृतयोरेवाचकानुप्रवेशैन परम्परितं यथा ।। पुरो हठाक्षिप्ततुषारपाण्डुरच्छदा वृतेर्वीरुधि बद्धविभ्रमाः ।। मिलन्निमीलं ससृज़विलेकिता नभस्वतस्तं कुरुमेषु-केलयः ॥ अत्र ‘कुछमेषु केलय एव कुसमेषुकेलयः इति रूपकेण लतायां स्त्रीरूपकनिर्वाहः । अत इदमेकदेशविवर्यपि । एवमन्यदज्यूह्यम् । केचित्तु-रूपकं द्विविधम्, अभेदरूपके तदिप्यरूपकं च । आरोण्यारोपविषययोरभेदपर्यवसायि प्रथमम् । भेदे प्रतीयमान एवं तदीयधर्मारोपमात्रपर्यवसितं द्वितीयम् । द्विविधमपि विषयिणोऽधिकन्यूनत्वानुभयोक्या च षडविधम् । यथा-- विना पतनं विनतातनूजैः समीरणैरीक्षणलक्षणीयैः । मनोभिरासीदनणुप्रमाणैन कङ्किता दिक्कतमा तदश्वैः । यथा वा- शम्भुर्विश्वमवत्यद्य स्वीकृत्य समदृष्टिताम् ।। अयमास्ते विना शम्भुस्तातयीकं विलोचनम् ॥ अयं हि धूर्जटिः साक्षाच्चैन दुग्धाः पुरः क्षणात् । •