पृष्ठम्:चन्द्रालोकः (राकागमव्याख्यासहितः).djvu/१०७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

राकागमसहिते चन्द्रालोके-

-*-* -

  • -*-
  • -*-*-*-*-*-*-*-*-*-*-*-*-*

वाच्यता अज्ञातज्ञाप्यता, तन्नेत्यर्थः । एकधर्मवत्वेनोपमानोपमेयभावो यन्नेत्याशयः । विनिद्रत्वलक्षितविकासस्योभयसाधारण्यालक्ष्यत्वम् । इयं च पूर्वोकपूर्णोपमातो भिन्ना । तत्रोपमानधर्मत्वेन ज्ञातस्योपमेयनिष्ठत्वबोधः । इह तु इलेषेणैकदैवोभयनिष्ठत्व बोध इति । अयं चोपमेयोपमाभेद इति केचित् ॥ १७ ॥ रूपकमाह- यत्रोपमानचित्रेण सर्वथाप्युपरज्यते । उपमेयमयी भित्तिस्तुत्र रूपकमिष्यते ॥ १८ ॥ यत्रेति । उपमानरूपचिन्नेणोपमेयरूपा भित्तिः सर्वथा स्वतादात्म्येनैवोपरज्यते हार्यनिश्चयविषयीक्रियते यत्र, तत्र रूपकमित्यक्षरार्थः । उपमानाभिन्नत्वेनोपमेयस्या- ऽऽहार्य निश्चयो रूपकमिति फलितार्थः । उपमाने चित्रतादात्म्यारोपलक्ष्यमपीदमेव । अचेदं बोध्यम्- रूपकं न्निधा, सावयवं निरवयवं परम्परितं च । अवयवो धर्मः । आद्य समस्तवस्तुविषयमेकदेशविवर्ति चेति द्विधा । द्वितीयमपि शुद्ध मालारूपं चेति द्विधा । तृतीयमपि शुद्धं मालारूपं चेति द्विधेति । आरोत्यारोपविषयारोपणीयधमणां च शाब्दत्वे समस्तवस्तुविषयम् । अन्यतरस्य सामथ्र्यलभ्यत्वे एकदेशविवर्ति । आरोत्या. रोपविषययोरेव शाब्दत्वे शुद्धम् । एकस्मिन्ननेकाशेपे मालारूपकं चतुर्थम् । आरोप्या- रोपविषययोर्धमणां चैकवाचकानुप्रवेशेन प्रकृतरूपकनिर्वाहकं यदप्रकृतरूपकं तत्परम्परि- तम् । एवंदनै रूपकमिति । यथा- तडिदियं क्षणलोचनगोचरा मम रहस्यमियं हृदि वर्तते । किमपि वेग्नि दृगन्तनिरीक्षणान्मनसि गलता मयि वर्धते ॥ | इदं सावयवभेदद्वयस्य निरवयवशुद्धस्य चोदाहरणम् । अत्रे प्रथमचरणे आरोग्या. रोपविषयारोपणीयधर्माण शाब्दत्वात्समस्तवस्तुविषयै सवयत्रम् । इदं चात्र दृश्य सादृश्यरूपकमिति मूले उक्तम्। द्वितीयचरणे रहस्यत्वारोपण हृदये मज्जूषात्वारोपस्या- र्थत्वात्तत्र स्थापनादिधमणामर्थलभ्यत्वादेकदेशविवर्ति सावयवम् । इदं च रूपितरूपक मित्यत्रोक्तम् । उत्तराधे रागे लतात्वारोपस्य शाब्दत्वाद्धमारोपाभावाच्च शुद्धम् । इदै चाभासरूपकमित्यत्रोक्तम् । यथा वा-- सेयं मृदुः कौतुमचापयष्टिः स्मरस्य मुष्टिग्रहणाईमध्या । तनोति नः श्रीमदपाङ्गमुकां मोहाय या दृष्टिशौघवृष्टिम् ॥ अत्र दमयन्त्या चापयष्टितादात्म्यम् । यथा वा- केशान्धकारादथ दृश्यभालस्थलार्धचन्द्रा स्फुटमष्टमीयम् । एनां यदासाद्य जगज्जयाय मनोभुवा सिद्धिरसाधि साधु ॥ न चान्न 'केशा अन्धकार इव, भालमर्धचन्द्र इव, इयमष्टमीवेत्युपमसन्देसरा- लङ्कारोऽस्त्विति वाच्यम् । दमयन्त्यामष्टमीतादात्म्यारोपे सिद्धं तदुत्तरमेव धर्मत्व