पृष्ठम्:गोपालसहस्रनामस्तोत्रम्.pdf/९७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
८३
गोपालसहस्रनामस्तोत्रम्


तत्त्वत्रयात्मकः- चिदचिदीश्वरतत्त्वत्रयस्वरूपः। अव्यक्तः- अप्रकाशः । 'नाहं प्रकाशः सर्वस्य योगमायासमावृतः' (गी.7.25) इति गीतायाम् । कुण्डली--कुण्डलाख्याभरणमण्डितः । समुपाश्रितः - आर्तैर्भक्तैरुपाश्रितः। ब्रह्मण्यः -- ब्रह्मशब्देन तपः वेदाः विप्राः ज्ञानं चोच्यते, तेभ्यो हितः ब्रह्मण्यः । सर्वधर्मज्ञः- शास्त्रप्रतिपाद्यान् सर्वान् धर्मान् जानातीति । 'विदितः सहि धर्मज्ञः' (रा. 5-21-20) 'धर्मज्ञश्च कृतज्ञश्च ' (१-१-२) इति रामायणे। शान्तः --- अशनायापिपासाद्यूर्मिषट्करहितः । दान्त:-निगृहीतेन्द्रियः । गतक्लम:- ग्लानिरहितः ॥१३१॥


 श्रीनिवासः सदानन्दः विश्वमूर्तिमहाप्रभुः ।
 सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् ॥ १३२ ॥

श्रीनिवासः-- लक्ष्म्याः वासस्थानम् । यस्य वक्षसि श्रीरनपायिनी वसति । सदानन्दः --- सदा आनन्दो यस्य सः । विश्वमूर्तिः विश्वं मूर्तिः शरीरं यस्य सः । महाप्रभुः-प्रभूणामपि प्रभुः । सहस्रशीर्षा -- अनन्तानि शिरांसि यस्य सः । सहस्राक्षः – अनन्तानि अक्षीणि यस्य सः। सहस्रपात – अनन्तचरणः। सर्वज्ञत्वात् सर्वशक्तित्वाच्च सर्वत्र शिरः चक्षुःपादकार्यकारणसमर्थः इत्यर्थः । पुरुषः -पुरु सनोति ददातीति पुरुषः बहुपदः । पुरि हृदयगुहायां शेत इति वा ।। १३२ ॥


समस्तभुवनाधारः समस्तप्राणरक्षकः ।
समस्तसर्वभावज्ञो गोपिकाप्राणवल्लभः ॥ १३३ ॥

 समस्तभुवनाधारः --- सर्वेषां लोकानामाधारः । 'एष सेतुर्विधरण एषां लोकानामसम्मेदाय। (बृ. 6-4-३2) इति श्रुतेः। समस्तप्राणरक्षकः-- सर्वेषां प्राणस्य रक्षकः । 'को ह्येवान्यात् क; प्राण्यात्; यदेष आकाश


 132 a ख. घ. सदानन्दी