पृष्ठम्:गोपालसहस्रनामस्तोत्रम्.pdf/९३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
७९
गोपालसहस्रनामस्तोत्रम्


इति रामवचनम् । सत्यवाक् सत्या वाक् यस्य सः।

 'तुष्येत्तोयनिधिः कृष्णे न मे मोघं वचो भवेत् ।’

इति श्रीकृष्णवचनम् । सत्यविक्रम:- सत्यः पराक्रमो यस्य सः । सत्यव्रतः सत्यं आश्रितपरिपालनसाङ्कल्परूपं व्रतं यस्य सः । 'अभयं सर्वभूतेभ्यो ददाम्येतद् व्रतं मम’ इति रामायणे । इत्यरतः सत्यभाषणे तत्परः । 'अनृतं नोक्तपूर्वं मे न च वक्ष्ये कदाचन’ इति रामायणे। सत्यधर्मपरायणः सत्ये सत्यभाषणे, धर्मे शास्त्रविहिते च परायणः नियतः। 'वर्ते एव हि कर्मणि' (गी. 3-22) इति गीतायाम् | सत्यरूपधर्मपरो वा ॥१२१॥


 आपन्नर्तिप्रशमनः द्रौपदीमानरक्षकः ।
 कन्दर्पजनक प्राज्ञो जगन्नाटकवैभवः ॥ १२२ ॥

 आपन्नार्तिप्रशगनः-- आपन्नानां आपद्गतानां आर्ते: दुःखस्य पशमनः निवर्तकः। द्रौपदीमानरक्षकः- द्रौपद्याः गौरवस्य रक्षकः । सभायां दुश्शासेन वस्त्रेऽपह्रियमाणे गोविन्द इत्युच्चैराक्रन्दन्ती द्रौपदीं वस्त्रादॊर्घींकरणेन ररक्षेति भारते । कन्दर्पजनकः---- प्रद्युम्नपिता, स्वदर्शनेन स्त्रीणां कामजनको वा। प्राज्ञः:-- प्रकृष्टज्ञानवान् । जगन्नाटकवैभवः -- जगद्यापाराख्यं नाटकमेव वैभवं ऐश्वर्यं यस्य सः ॥ १२२ ॥


 भक्तिवश्यो गुणातीतः सर्वैश्वर्यप्रदायकः ।
 दमघ बाणबाहु विखण्डनः ॥ १२३ ॥

 

 भक्तिवश्यः- मकः परतन्त्रः । ’भक्तिक्रीतो” जनार्दनः । गुणातीतः:- सत्त्वरजस्तमोगुणत्रयमतिक्रान्तः तदहितः । सर्वैश्वर्यप्रदायकः ऐहिकामुष्मिकमोक्षरूपसर्वैश्वर्याणां प्रदाता। दमधोषसुतद्वेषी-शिशुपालशत्रुः। बाणबाहुविखण्डनः-बाणासुरस्य बाहोः छेता ॥ १२३ ॥

 

 भीष्मभक्तिप्रदो दिव्यः कौरवान्वयनाशनः ।
 कौन्तेयप्रियबन्धुश्च पार्थस्यन्दनसारथिः ।। १२४ ॥