पृष्ठम्:गोपालसहस्रनामस्तोत्रम्.pdf/९२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
७८
गोपालसहस्रनामस्तोत्रम्

” न तत्समश्चाभ्यधिकश्च दृश्यते’ इति श्रुतेः । समस्तात्मा-- सर्वेषामात्मा। 'अहमात्मा गुडाकेश सर्वभूताशयस्थितः ' (गी . 10-20) इति गीतायाम् । शरणागतवत्सलः - वत्सेषु गोरिव शरणागतेषु स्नेहवान् । 'विदितः स हि धर्म ज्ञः शरणागतवत्सलः। तेन मैत्री भवतु ते यदि जीवितुमिच्छसि ।' (रा. 5-21-20) इति सीता रावणं प्रति प्राह ॥ ११९ ॥


 उत्पत्तिस्थितिसंहारकारणं सर्वकारणम् ।
 गम्भीरः सर्वभावज्ञः सच्चिदानन्दविग्रहः ॥ १२० ॥

उत्पतिस्थितिसंहाराणाम् कारणम्, अत एव सर्वकारणम्गम्भीरः:- दुरवगाहाभिप्रायः । शोभकारणे सत्यप्यक्षुब्धहृदयो वा । सर्वभावज्ञः- सर्वेषां भावं हृद्गतं जानातीति । 'अज्ञातं नास्ति ते किंचित्' (रामायणे) (6-17-35)। सचिदानन्दविग्रह:- सत् निर्विकारः चित् ज्ञानवत् स्वयंप्रकाशः आनन्दः अनुकूलत्वेन भासमानः विग्रहः मूर्तिः यस्य सः । 'ज्ञानानन्दमया लोकाः' इति श्रीवैकुण्ठस्वपदार्थानां ज्ञानानन्दस्वरूपत्वकथनात् तत्रस्थितभगवद्विग्रहस्य ज्ञानानन्दस्वरूपत्वम् । अथवा सचिदानन्दस्वरूप:॥१२०॥

 

 विष्वक्सेनः सत्यसन्धः सत्यवाक् सत्यविक्रमः ।
 सत्यव्रतः सत्यरतः सत्यधर्मपरायणः ॥ १२१ ॥

 विपक्सेना-विष्वक इति सर्वार्थकमव्ययम् । सर्वं सेना दैत्यसेना अश्चति पलायते यस्य युद्धोद्योगमात्रेण स विष्वक्सेनः । सर्वव्यापिनी सेना अञ्चति वा । सत्यसन्धः-सत्या सन्धा प्रतिज्ञा यस्य सः ।।  'अप्यहं जीवितं जह्यां त्वां वा सीते सलक्ष्मणाम् ।  नतु प्रतिज्ञां संश्रुत्य ब्राह्मणेभ्यो विशेषतः ॥' (रा. 3-10-19)


 121 b.ख घ .. सत्यवान् सत्य.
 121 c.ख घ .. सत्यवतः सत्यसंज्ञः
 121 d. ख सर्वधर्म