पृष्ठम्:गोपालसहस्रनामस्तोत्रम्.pdf/८९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
७५
गोपालसहस्रनामस्तोत्रम्


 जरासन्धकुलध्वंसी-जरासन्धवंशनाशनः । कंसाराति: कंसशत्रुः कंसधातकः । सुविक्रमः'-शोभनपराक्रमः | पुण्यश्लोकः:- पुण्यकीर्तिः । कीर्तनीयः:-कीर्तनयोग्यः । 'सततं कीर्तयन्तो माम्’ इति गीतायाम् । यादवेन्द्रः- यादवश्रेष्ठः। जगन्तुत:--सर्वैः स्तुतः॥११२॥


 रुक्मिणीरमणः सत्यभामाजाम्बवतीप्रियः ।
 मित्रविन्दानाग्नजितीलक्ष्मणासमुपसितः ॥ ११३ ॥

 रुक्मिणीरमणः --- रुक्मिण्याः रतिकरो भर्ता । सत्यभामाजाम्बवत्योः- - प्रियः भर्ता । मित्रविन्दया नाग्निजित्या लक्ष्मणया व सम्यगपासितः। एताः सर्वाः कृष्णः उढवानिति भागवते अष्टपञ्चाशत्तमेऽध्याये ।। ११३ ॥


 सुधाकरकुले जातोऽनन्तप्रबलविक्रमः ।
 सर्वसौभाग्यसम्पन्नो द्वारकापत्तने स्थितः ॥ ११४ ॥

 सुधाकरङ्कुले जात:-चन्द्रवंशे समुत्पन्नः। अनन्तप्रबलविक्रमः अपरिच्छेद्यः प्रकृष्टः पराक्रमो यस्य सः । सर्वसौभाग्यसम्पन्न:- सर्वविधसौभाग्यसमृद्धः । द्वारकापत्तने स्थितः--द्वारकानिलयः ।। ११४ ॥


 भद्रासूर्यसुतानाथो लीलामानुषविग्रहः ।
 सहस्रषोडशस्त्रीशो भोगमोक्षैकदायकः ॥ ११५ ॥

 भद्रासूर्यसुतानाथः - भद्रानाम्नी श्रुतकीर्ते सुता, सूर्यसुता कालिन्दी अनयोः नाथः पतिः। भद्राकालिन्दीम्यां कृष्णस्य विवाहः भागवतेऽष्टपञ्चाशत्तमेऽध्याये द्रष्टव्यः । लीलामानुषविग्रहः - लीलार्थं स्वीकृतः मानुषा



 113 c ङ. नाग्नजिती -
 114 b. क अनन्तः प्रबल.
 114 d ख घ.द्वारकायामुपस्थितः