पृष्ठम्:गोपालसहस्रनामस्तोत्रम्.pdf/८३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
६९
गोपालसहस्रनामस्तोत्रम्


'प्राज्ञेनात्मना सम्परिष्कृतो न बाह्यं किंचन् वेद नान्तरम् ’ (बृ .6-3-21) इति श्रुतौ प्राज्ञशब्दः परमात्मनि प्रयुक्तः । अथ वा प्रकृष्टा आज्ञा यस्य सः प्राज्ञः , अप्रतिहतशासनः । अप्रतर्क्यः:- केवलतर्केण ज्ञातुमशक्यः । 'नैषा तर्केण मतिरापनेया' (कठ.2-9) इति श्रुतेः । स्वप्नवर्धन:-- स्वप्नेन प्राणिनो वर्धयतीति स्वप्नवर्धनः । सत्कर्मकर्तॄणां प्राणिनां स्वप्ने शुभसूचकवस्तु दर्शयित्वा तन्मुखेनाभिवृद्धिप्रद इत्यर्थः ॥ ९८ ॥


 धन्यो मान्यो भवो भावो धीरः शान्तो जगद्गुरुः ।
 अन्तर्यामीश्वरो दिव्यो दैवज्ञो देवसंस्तुतः ॥ ९९ ॥


 धन्यः– भक्तानामभीष्टपूरणेन कृतार्थः । मान्यः -- सर्वैः सत्करणीयः सर्वेश्वरत्वात् । भवः - भक्त्यस्मात् सर्वमिति भवः। भावः - सकलमपञ्चविशिष्टो भवतीति भावः । धीर:-प्राणिनां धीः बुद्धिःताम् ईरयति प्रेरयति इति धीरः । 'धियो यो नः प्रचोदयात् ’। (गायत्री) आपद्यपि चाञ्चल्यरहित इति वा ।

 'विकारहेतौ सति विक्रियन्ते येषां न चेतांसि त एवं धीराः।।

(कुमारसम्भवम्)

शान्तः- अशनायापिपासाद्यूर्मिष्ट्करहितः ।अशनायापिपासे शोकमोहौ . जरामृत्यू च ऊर्मिषटकम् । जगद्गुरुः - जगतां गुरुः । अन्तर्यामी- अन्तः प्रविश्य नियन्ता । 'एष ते अन्तर्याम्यमृतः’ (बृ.7-3) इति अन्तर्यामिब्राह्मणे। ईश्वरः - निरुपाधिकैश्वर्यवान्। समर्थः अप्रतिहतशक्तिमानिति वा । 'परास्य शक्तिविविधैव श्रूयते।। (श्वे. 6-8) दिव्यः- द्युलोकनिलयः। 'दिव्यो ह्यमूर्तः पुरुषः। (मु. 2.1.3:) इति मुण्डके । देवज्ञः-शुभाशुभकर्मज्ञः । देवसम्बन्धिरहस्यज्ञ इति वा । देवसंस्तुतः - देवः ब्रह्मरुद्रादिभिः सम्यक् स्तुतः ॥ ९९ ॥



 99 d ख घ. दैवज्ञो देवतागुरुः