पृष्ठम्:गोपालसहस्रनामस्तोत्रम्.pdf/८१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
६७
गोपालसहस्रनामस्तोत्रम्


 नन्दगोपकुमाराय:--- नन्दाख्यस्य गोपालस्य कुमारार्यः पुत्रश्रेष्ठः । नन्दगोपकुमारश्चासौ अर्यः सर्वेषां स्वामीति वा । अर्यः स्वामिवैश्ययोः'। (पा.सू. 3-1-103) नवनीताशन:- गोपगृहेषु स्थितानि नवनीतानि चौर्येणाश्नुते भुङ्क्ते इति नवनीताशनः । विभु:- सर्वव्यापी। पुराणपुरुष:- सनातनः पुरुषः । श्रेष्ठ:--सर्वोत्कृष्टः । 'न तत्समश्चाभ्यधिकश्च दृश्यते’ इति श्रुतेः। शङ्खपाणिः पाञ्चजन्यः पाणौ हस्ते यस्य सः । सुविक्रमः -- अतिशयितपराक्रमशाली। 'शत्रोः प्रख्यातवीर्यस्य रञ्जनीयस्य विक्रमैः । (रा. 6-106-6) इति रावणेनापि स्तुतः पराक्रमो यस्य ।॥ ९४ ॥


 अनिरुद्धश्चक्ररथः शार्ङ्गपाणिश्चतुर्भुजः ।
 गदाधरः सुरार्तिघ्नों गोविन्दो नन्दकायुधः ॥ ९५ ॥

 अनिरुद्धः --- अवतारेषु न केनापि निरुद्धः, शत्रुभिरनभिभूतः । चक्ररथ:- युद्धं विना यात्रोत्सवादौ सुखभ्रमणार्थो रथः चक्ररथ इत्युच्यते : सोऽस्यास्तीति अर्शआद्यच् । 'असौ पुष्यरथश्चक्रयानं न समराय यत् । इत्यमरः (२-८-५१) । चक्रधर इति पाठे सुदर्शनाख्यचक्रायुधाधारीत्यर्थः । शार्ङ्पाणिः-शार्ङ्गाख्यं धनुः पाणौ यस्य सः । चतुर्भुजः चत्वारो बाहवो यस्य सः । गदाधरः --- गदाख्यायुधधारी । सुरार्तिघ्नः-सुराणां देवानां आर्ति रावणादिकृतपीडां हन्तीति तादृशः । गोविन्दः----गा: वेदादिरूपाः वाच: प्रतिपादकत्वेन विन्दते प्राप्नोतीति तादृशः । नन्दकायुधः-- नन्दकाख्यः खड्गः आयुधं यस्य सः ॥ ९५ ॥


 वृन्दावनचरः शौरिर्वेणुवाद्यविशारदः।
 तृणावर्तान्तको भीमसाहसी बहुविक्रमः ॥ ९६ ॥

 वृन्दावनचर:-- वृन्दावनसञ्चारी श्रीकृष्णः । शौरिः -- शूरस्य वसुदेवस्यापत्यम् । शूरकुलोत्पन्न इति वा। वेणुवाद्यविशारदः- वेणुवादने



  95 a .क अनिरुद्धश्चक्रधरः
  96 d ख.घ.ङ. साहसो बहु-