पृष्ठम्:गोपालसहस्रनामस्तोत्रम्.pdf/७७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
६३
गोपालसहस्रनामस्तोत्रम्


 श्रीपतिः --- लक्ष्मीपतिः भक्तसम्पदं पातीति वा। पुण्डरीकाक्षः-- पद्मनेत्रः । पद्मनाभः .- चतुर्मुखादिसकलजगत्स्रष्टृ पद्मं नाभौ यस्य सः | जगत्पतिः -- जगत्स्वामी । वासुदेवः -- - वसुदेवसूनुः ।  'सर्वत्रासौ समस्तं च वसत्यत्रेति वै यतः ।  ततः स बासुदेवेति विद्वद्भिः परिपठ्यते ॥'

(वि.पु. 1- -12)

इत्युक्तलक्षणो वा । अप्रमेयात्मा -- अपरिच्छेद्यस्वरूपः । केनापि प्रत्यक्षा- दिना प्रमाणेन इयत्तया ज्ञातुमशक्य इति वा। केशवः - ब्रह्मरुद्रेशः , केशिह्न्ता स्निग्धनीलकुन्तलवानिति वा । गरुडध्वजः -- गरुड एव ध्वजो यस्य सः ॥ ८६ ॥  नारायणः परं धाम देवदेवो महेश्वरः ।  चक्रपाणिः कलापूर्णो वेदवेद्यो दयानिधिः ॥ ८७ ॥

 नारायणः - नरसमूहस्याश्रयः सर्वान्तर्यामीति वा । परं धाम- उत्कृष्टं तेजः । चराचरात्मककृत्स्नप्रञ्चाधारभूत इति वा। देवदेवः- देवानां देवः । महेश्वरः -- ईश्वराणां ईश्वरः। 'तमीश्वराणां परमं महेश्वरं तं दैवतानां परमं च दैवतम् ' (श्वे, 6-7) इति श्रुतिः। चक्रपाणि: - चक्रं सुदर्शनाख्यं पाणौ यस्य सः। कलापूर्णः -- षोडशकलापरिपूर्णश्चन्द्र इव प्रकाशमानः । चतुष्षष्टिकलाभिज्ञ इति वा । वेदवेद्यः -- वेदप्रतिपाद्यः, वैदैकप्रमाणकः । दयानिधिः -- करुणालयः । परदुःखनिराचिकीर्षा दया तद्वानित्यर्थः ।। ८७॥ <poem>  भगवान् सर्वभूतेशो गोपालः सर्वपालकः ।  अनन्तो निर्गुणो नित्यो निर्विकल्पो निरञ्जनः ॥ ८८ ॥ <poem>

 मगवान् वाङ्गुण्यपरिपूर्णः।


 88 c. ख. अनन्तो निर्गुणोऽनन्तो