पृष्ठम्:गोपालसहस्रनामस्तोत्रम्.pdf/७४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
६०
गोपालसहस्रनामस्तोत्रम्



 मुरारिर्लोकधर्मज्ञः जीवनो जीवनान्तकः ।
 यमो यमादियमनो यामी यामविधायकः ॥ ८१ ॥

 मुरारि:- मुरनामास्यासुरस्य शत्रुः हन्ता । लोकधर्मज्ञः-- लोकानां हितं धर्मं जानातीति तादृशः। 'धर्मज्ञश्च कृतज्ञश्च सत्यवाक्यो दृढव्रत:' (रा.1.1.2) इति रामायणे। जीवन:- सर्वेषां जन्तूनां प्राणनः । 'को ह्येवान्यात् कः प्राण्यात् । यदेष आकाश आनन्दो न स्यात्' इति श्रुतिः । जीवनान्तकः मारकः । 'कालोऽस्मि लोकक्षयकृत प्रवृद्धः' इति स्मरणात् । {गी.11.32) यमः --- यमस्वरूप: । नियन्ता सर्वस्य जगत इति वा । ' यमः संयमतामहम्' इति गीतायाम् । (गो.10-29)

 'यमो वैवस्वतो राजा यस्तवैष हृदि स्थितः ।  तेन चेदविवादस्ते मा गङ्गां मा कृरून् गमः ।।'

इति मनुस्मृतौ । यमादियमानः यमप्रभृतीनां नियन्ता । यामं अन्तर्यामी । यामविधायक:- यामास्यस्य कालप्रभेदस्य विधाता ॥ ८१ ।।

 

 वसुली पांसुली पांसुः पाण्डुरर्जुनवल्लभः ।
 ललिता चन्द्रिकामाली माली मालाम्बुजाश्रयः ॥ ८२ ॥

 वसुली- वसु धनं लिनाति श्लेषयतीति वसुली । 'ली श्लेषणे’ ल्यादिः । धनप्रद इत्यर्थः । 'अन्नादो वसुदान' इति श्रुतिः । वंशुली इति पाठे बंशुलाः वंशोद्भवाः रुक्मिण्यादयः अस्य सन्तीति वंशुली। वंशली इति पाठे वंश वेणुं लाति आदत्त इत्यर्थः । पांसुली--- पांसुश्लिष्टः गोपालवेषत्वात् तदुचितपांसुलिप्तशरीर इत्यर्थः । पांसु प्रचुरदेहः । पांसुः -- व्रजरजोरूपः । यद्वापंशयति नाशयति भक्तविरोधिन इति पांशु । ’पशि नाशने' इति



 8I c क.ङ. यमो यमारियंमनो
  ख. यमो यमादिर्यंमनो
 81 d. क यामनिघातकः
 82 a. क ङ वंशुली पांशुली पांश:
-. . .-