पृष्ठम्:गोपालसहस्रनामस्तोत्रम्.pdf/७२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
गोपालसहस्रनामस्तोत्रम्


'सरसामस्मि सागरः' इति स्मरणात् । अकूपारः --- कूर्मावतारः 'ओं नमो भगवते अकूपाराय' इति भागवते । पारं नद्यादेः कूलं मत्स्यावताररूपेण आवृणोतीति पारावारःसरित्पतिः -- सरितां पतिः समुद्रान्तर्यामी सरितः श्रीयमुनानद्याः पतिरिति वा। गोकुलानन्दकारी–गोकुलस्य गोसमूहस्य आनन्दजनकः । प्रतिज्ञापरिपालकः- प्रतिज्ञाया उक्तवाक्यस्य परिपालकः रक्षकः ।  'द्यौः पतेत् पृथिवी शीर्येत् हिमवान् शकलीभवेत् ।
 शुष्येत्तोयनिधिः कृष्णे न मे मोघं वचो भवेत् ॥’

इति ह्युक्तं भगवता कृष्णेन द्रौपदीं प्रति । ’कौन्तेय प्रतिजानीहि न मे भक्तः प्रणश्यति' (गी. 9-31 ) इत्यादिकमिह भाव्यम् ।॥७७ ॥


 सदारामः कृपारामः महारामो धनुर्धरः ।
 पर्वतः पर्वताकारो गयो गेयो द्विजप्रियः ॥ ७८ ॥

 सदा जना रमन्तेऽस्मिन्निति सदारामः । सतामारामो विश्रामस्थानमिति वा । सत्सु आरामो यस्येति वा । कृपाविशिष्टो रामः कृपारामः । 'चतुर्णां हि स धर्मात्मा भूतानां कुरुते दयाम्' इति रामायणे, कृपया भक्तेषु रमणं यस्येति वा । महारामः महान् स्वरूपेण गुणैश्च उत्कृष्टो रामः । महत्सु पूज्येषु आसमन्तात् रामो रमणं यस्येति वा । धनुर्धरः--- उपासकानां प्रतिपक्षविनाशाय धनुर्धारयतीति तादृशः । पर्वतः पर्वत इव अप्रकम्प्यः । पर्वताकारः- पर्वतस्येवाकृतिः यस्य सः। गय - गयारूपी गयायां विष्णुः संनिहित इति हि प्रथा । गेयः - स्तुत्यः । द्विजप्रियः - द्विजानां प्रीतिविषयः । दिजाः प्रियाः प्रीतिविषया यस्येति वा ॥७८॥


 कम्बलाश्वतरो रामो रामायणप्रवर्तकः ।
 द्यौर्दिवो दिवसो दिव्यो भव्यो भावी भयापहः ॥७९॥



  79 a क कमलाश्य-
  79 c ख घ.. द्योदिवो
  79 d ख ङ...भाविभयापह