पृष्ठम्:गोपालसहस्रनामस्तोत्रम्.pdf/७१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
५७
गोपलसहस्रनामस्तोत्रम्


जगव्द्यापाररूपा लीला अस्यंति लीलः | नीलः-श्यामलः । भक्तिपरायणः - भक्त्या प्राप्तव्यः । भक्तिरेव परमयनं प्राप्तिसाधनं यस्मिन् सः । भक्त्येकलभ्य इत्यर्थः ।। ७५ ॥


 जानकीवल्लभो रामः विरामो विघ्ननाशनः ।
 सहभानुर्महाभानुः वीरबाहुर्महोदधिः ॥ ७६ ॥

 जानकीवल्लभः - जानक्याः सीतायाः वल्लभः प्रियः पतिः । जानकी वल्लभा प्रिया अस्येति वा । रामः ---- सर्वान्तर्यामितया रमत इति रामः । विरामः ----विरमणं प्रलयः प्राणिनामस्मिन्निति विरामः । विरम्यते अस्मिन् रावणादिभिरिति विराम इति वा। विविधं रमयति रूपौदार्यादिभिर्विराम इति वा । विघ्ननाशनः --- विघ्नानां नाशकः । सहभानुः - दीप्तिसहितः । श्रिया सह भाति प्रकाशत इति वा सहभानुः । सहस्रांशुरिति - पाठे सहस्रकिरण इत्यर्थः । सर्वतो देदीप्यमान इति भावः । महाभानुः . . महासूर्यः सूर्यकोटिप्रकाशः । वीरबाहुः --- विक्रान्ता बाहयो यस्य सः । वीरेषु बलवत्सु भाति प्रकाशत इति वा वीरभानुः ।  'यद्यद्विभूतिमत्सत्त्वं श्रीमदृर्जितमेव वा ।  तत्तदेवावगच्छ त्वं मम तेजोंऽशसम्भवम् ॥'

(गी. 10-41)

महोदधिः-- गुणगणोघमहार्णवः ।। ७६ ॥


 समुद्रोऽब्धिरकूपारः पारावारः सरित्पतिः ।
 गोकुलानन्दकारी च प्रतिज्ञापरिपालकः ॥ ७७ ॥

 समुद्रादयः शब्दाः पर्यायाः गुणरत्नानामाकरभूत इत्यर्थः। यद्वा मुद्रा लक्ष्मीः तया सह वर्तत इति समुद्रः। आपो धीयन्तेऽस्मिन्निति अब्धिः।


 76 b ङ विरामो विषनाशनः
 76.c घ. सहस्रांशुर्महाभानुः
 76 d ङ. वीरभानुर्महोदधिः