पृष्ठम्:गोपालसहस्रनामस्तोत्रम्.pdf/६६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
५२
गोपलसहस्रनामस्तोत्रम्



 वर्धन्यो वर्धनी वर्धी वर्धिष्णुः सुमुखप्रियः ।
 वर्धितो वृद्धको वृद्धो वृन्दारकजनप्रियः ॥ ६७ ॥

 वर्धन्यः वृद्धिशीलः सदा अभिवर्धमानः। सर्वपूज्यत्वाद्वर्धनार्ह इत्यर्थः । वर्धनी - आश्रितजनान् वर्धयतीति तादृशः । वर्धी--- वृद्धिमान्। वर्धिष्णुः-वर्धनशीलः । सुमुखप्रियः-- सुशोभनं अविकृतं प्रसन्नं मनोहरं च मुखं यस्य सः सुमुखः सुमुखश्चासौ प्रियश्च । प्रसन्नवदनं चारु पद्मपत्रायतेक्षणम्' इति विष्णुपुराणे (6-7-80) वर्धितः गुणकीर्तनैः भक्तक्रियमाणैः वृद्धिं प्राप्तः । वृद्धकः - प्रवृद्धः सनातन इत्यर्थः’ ’त्वेषं ह्यस्य स्थविरस्य नाम' इति श्रुतिः। वृद्धः समानोऽर्थः । वृन्दारकजनप्रियः-वृन्दारकजनाः देवजनाः प्रियाः यस्य सः। वृन्दारकजनानां प्रिय इति वा ।। ६७ ॥


 गोपालरमणीभर्ता साम्बवकुष्ठविनाशकः ।
 रुक्मिणीहरणः प्रेमप्रेमी चन्द्रावलीपतिः ॥ ६८ ॥

 गोपालरमणोभर्ता-गोपालरमणीनां गोपस्त्रीणां भर्ता पतिः धारयिता । साम्बकुष्ठविनाशकः - साम्बनामा कश्चित् कुष्ठरोगार्तः भगवन्तं तुष्टाव । तेन प्रीतो भगवान् तदीयरोगं विनाशयामासेत्याहुः । रुक्मिणीहरणः- रुक्मिणीं हरति गान्धर्वेण विधिना हरतीति तादृशः। प्रेम-प्रीतिस्वरूपः ! प्रेमी --- अतिशयितप्रेमवान् । रुक्मिणीहरणप्रेमा प्रेमी इति पाठान्तरम् । तत्र रुक्मिण्याः हरणे प्रेमा प्रीतिर्यस्य सः रुक्मिणीहरणप्रेमा



  67 a. ख वधन्यो वर्धनो
  67 b ख. घ. बाधिन्यः सुमुखः
   ङ सुमुखप्रियः
  67 c क वर्षितो वर्षको
  68 b क. ङ. शाम्बकुष्ठविनाशनः
  68 cd ङ हरणप्रेमा प्रेमी
  68 d क. प्रेमा चन्द्रावल्लि-