पृष्ठम्:गोपालसहस्रनामस्तोत्रम्.pdf/६५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
५१
गोपालसहस्रनामस्तोत्रम्


रोलम्बी-रोलम्बो भ्रमरः तद्वान् । भक्तरूपैर्भ्रमरैः परिवृतः, मधुरूपत्वात् । हयग्रीवः-- हयस्य अश्वस्येव ग्रीवा मुखं यस्य सः । स्वीकृतहयग्रीवावतारः। ब्रह्मणः सकाशात् मधुकैटभाभ्यां वेदेष्वपहृतेषु तौ निहत्य विष्णुः विस्मृतवेदाय ब्रह्मणे हयग्रीवरूपस्सन् वेदानुपदिदेशेति पुराणप्रसिद्धम् । वानरारि:---वालिशत्रुः । द्विविदनाम्नः वानरस्य बलभद्ररूपेण अरिरिति वा। वनाश्रयः - अरण्यनिवासी । वनं--अरण्यस्वरूपी, नैमिशारण्ये अरण्यरूपेण भगवानस्तीत्याहुः । वृन्दावनवासी, वृन्दावनस्वरूप इति वा । वनी- विहाराय वनमस्यास्तीति वनी वनस्य इत्यर्थः । वनाध्यक्षः---वनस्याधिपतिः । महावन्द्यः-महाश्चासौ वन्द्यश्च नमस्कार्यश्च । महद्भिर्वन्द्यो वा । महावन्द्य इति पाठे महान् वृन्दावनापरित्यागरूपः प्रतिज्ञाविशेषः अस्येति । महामुनिः महांश्चासौ मुनिश्च मननकर्ता च । जगद्रक्षणचिन्तनशील इति यावत् । व्यासादिरूपो वा।

 'कृष्णद्वैपायनं व्यासं विद्धि नारायणात्मकम् ' इति स्मरणात् ॥ ६५ ॥


 स्यामन्तकमणिप्राज्ञो विज्ञो विघ्नविघातकः ।
 गोवर्धनो वर्धनीयः वर्धनो वर्धनप्रियः ॥ ६६ ॥

 स्यमन्तकनाममणिं प्रकर्षेण जानातीति स्यामन्तकमणिप्राज्ञः । स्यमन्तकोपाख्यानं भागवते दशमस्कन्धे षट्पञ्चाशतमेऽध्याये। विशेषेण सर्वं जानातीति विज्ञः।

 "अशुभानि निराचष्टे तनोति शुभसन्ततिम् ।
 स्मृतिमात्रेण यत्पुंसां ब्रह्म तन्मङ्गलं विदुः ॥"

इति स्मरणात् । विघ्नविघातकः-- स्मरणमात्रेण विघ्नानां नाशकः । गोवर्धनः----गाः वर्धयतीति तादृशः । गोवर्धनाख्यपर्वतस्वरूपो वा । - वर्धनीयः ----- आराधकसमर्पितैर्हविर्भिः पोषणीयः। वर्धनःभक्तिसम्पन्नाः प्रजाः वर्धयतीति वर्धनः । वर्धनप्रियः- प्रजानां वर्धनं प्रियं यस्य सः ॥६६।।



 65 d ङ महावन्धो
 66 a क. ख.ङ. स्यमन्तक
 66 d ङ वर्धनी