पृष्ठम्:गोपालसहस्रनामस्तोत्रम्.pdf/६३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
४९
गोपालसहस्रनामस्तोत्रम्


भक्तानां पापानि हरतीति हारकःसर्वपापघ्नः - सर्वाणि पापानि भक्तिवशीकृतो हन्तीति तादृशः। परमेष्ठी --- परमे स्थाने तिष्ठतीति परमेष्ठी। 'परमे कित्' (उ. सू. 458) हतीनिप्रत्ययः । 'अम्बाम्ब ' (पा.सू. 8-3-97) इत्यादिना षत्वम् ! 'हलदन्तात्' (पा.सू. 6-3-9) इति सप्तम्या अलुक् । पितामहः-चतुर्मुखस्वरूपः । पितामहत्वेन वर्तमानो वा। ’पिताहमस्य जगतो माता धाता पितामहः' (गी. 9.7) इति स्मृतेः। खङ्गधारी-खङ्गं नन्दकं धारयतीति । कृपां दीनेषु करोतीति कृपाकारीराधारमणसुन्दरः-राधायाः प्रीतिकरणे सौन्दर्येण युक्तः । राधया सह रमणे सुन्दरः निपुण इति वा ॥६१॥


 द्वादशारण्यसम्भोगी शेषनागफणालयः ।
 कामः श्यामः सुखश्रीदः श्रीपतिः श्रीनिधिः कृती ॥६२॥

 द्वादशारण्यसम्भोगी-द्वादशसु अरण्येषु सम्भोगशीलः ।  'भद्र-श्री-वैहभाण्डीर-महा-ताल-खटीरकाः ।  बहुलं कुमुदं काभ्यं मधुवृन्दावनं तथा ॥  द्वादशैता वने सङ्ख्या ॥

इति पाद्मवचनं वाचस्पत्ये उदाहृतम् । कालिन्दीपरिसरस्थानीयान्यरण्यानि । शेषनागफणालयः- शेषाख्यो यो नागः सर्पः तस्य फणैव आलयः वासस्थानं यस्य सः । कामः-सर्वैः काम्यमानः । 'रूपौदार्यगुणैः पुंसां दृष्टिचित्तापहारिणां , (रा, 2-3.29) इति रामायणे । श्यामः- नीलमेघश्यामलवर्णः। सुखश्रीदः-सुखं च श्रीश्च ऐश्वर्यं च तयोः प्रदाता । श्रीपतिः- लक्ष्मीपतिः । श्रीनिधिः-- श्रियाः वासस्थानम् । कृती----आश्रितत्राणे प्रयत्नशीलः ।। ६२ ॥



  62 c ख सुखः श्रीदः   62 d क: प्रिभाः प्रदः पतिः कृती    ख. कृति: for कृतो    ड. प्रीहः प्रीदः पतिः कृता