पृष्ठम्:गोपालसहस्रनामस्तोत्रम्.pdf/६२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
४८
गोपलसहस्रनामस्तोत्रम्


इति महाभारते (शान्ति. ३४२-८९) कालः आत्मनि चराचरं कलयति सकलयति इति काल: । 'काल; कलयतामहम् ' (गी. 10-30) इति भगवगीतायाम् । कालीदमनकारकः--काल्याः दमनं करोतीति तादृशः । कालीनियन्तेत्यर्थः ॥ ५९॥


 कुब्जाभाग्यप्रदो वीरः रजकक्षयकारकः ।
 कोमलो वारुणो राजा जलजो जलधारकः ॥ ६० ॥

 कुब्जाभाग्यप्रदः- कुब्जायाः वक्रगात्रायाः भाग्यं सुरूपं प्रददातीति तादृशः।


 'प्रसन्नो भगवान् कुब्जां त्रिवक्रां रुचिराननाम् ।
 ऋज्वीं कर्तुं मनश्चके दर्शयन् दर्शने फलम् ॥

इत्यादि भागवते (१०-४२-६) । वीरः प्राणिनः विविधमीरयति चेष्टयतीति वीरः । पराक्रमीति वा । रजकक्षयकारकः-- रजकस्य विनाशकः | अक्रूरेण प्रेरितः कृष्णः बलरामसहितः कंसगृहं प्रति प्रतिष्ठमान: मध्येमार्गं रजकं कंचिदायान्तं दृष्ट्वा तं वस्त्राण्ययाचत । स तु रजकः गोपवेषाणां भवतां राजार्हाणि वस्त्राणि न दास्यामीति सपरिहासमधिचिक्षेप । तत: कुपितः कृष्णः तं रजकमहन् इति भागवते दशमस्कन्धे एकचत्वारिंशत्तमेऽध्याये वर्तमाना कथात्रानुसन्धेया। कोमलः - मृदुस्वभावः स्वल्पस्यापि परदुःखस्यासहिष्णुः । 'व्यसनेषु मनुष्याणां भृशं भवति दुःखितः' (12-2-19) इति रामायणे । वारुणः- वरुणस्यापत्यं वसिष्ठोऽगस्त्यो वा वारुणः तत्स्वरूप इत्यर्थः । यद्वा 'वृञ् वरणे 'कॄवृदारिभ्य उनन् । (उ.सू. 340) परमात्मानं यः स्वामित्वेन वृणुते स वरुणः तत्र भवः वारुणः । 'मयि ते तेषु चाप्यहम् ' (गी. 9-29) इति गीतायाम् । राजा-दीप्तिमान् । जलजः--जले मत्स्यादिरूपेण जायमानः । जलधारकः- जलस्य धारयिता । 'एतस्य वा अक्षरस्य प्रशासने गार्गि द्यावापृथिव्यौ विधृते तिष्ठतः' (बृ उ.5.8-9) इत्यादि ॥ ६० ।।


 हारकः सर्वपापघ्नः परमेष्ठी पितामहः।
 खड्गधारी कृपाकारी राधारमणसुन्दरः ॥ ६१ ॥