पृष्ठम्:गोपालसहस्रनामस्तोत्रम्.pdf/५८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
४४
गोपालसहस्रनामस्तोत्रम्


 शूरः-- पराक्रमवान् । सूर्यः सरतीति सूर्यः । ‘राजसूयसूर्य । (पा. सू. 3-1-114) इति सूत्रेण सृधातोः सूर्यशब्दो निपातितः सूर्यवत्प्रकाशात्मकः । मृतण्डः सूर्यस्वरूपः मार्तण्ड इति पाठः स्यात् । भृकण्डरित्यपि पाठः । भास्करः -- सूर्यवत्प्रकाशमानः । भाः दीप्तिं करोति सूर्यादीनामिति वा भास्करः । ’तस्य भासा सर्वमिदं विभाति, । (मु. 2-2-10) । विश्वपूजितः -- सर्वैरपि पूजितः । रविः -- सूर्यात्मकः रूयते मुक्तैः प्राप्यते रवते संहारकाले विश्वं हिनस्तीति वा रविः । 'रुङ्गतिरेषणयोः' इति धातोरौणादिकः इः । तमोहा - अज्ञानाख्यान्धकारविनाशकः । ’अहमज्ञानजं तमः । नाश्याम्यात्मभावस्थो ज्ञानदीपेन भास्वता' (गी. 10-11) इति गीतायाम् । वह्निः विश्वं वहतीति वह्निः । वहिश्रिश्रुयुद्रुग्लाहात्वारिभ्यो नित्' (उ. सू. ........ ) इत्युणादिसूत्रम् । बाडवः - विप्ररूपः । बडबानलः - बडबाग्निस्वरूपः ।। ५२ ।।


 दैत्यदर्पविनाशी च गरुडो गरुडाग्रजः ।
 गोपीनाथो महीनाथो वृन्दानाथोऽविरोधकः ॥ ५३ ॥

 दैत्यदर्पविनाशी - असुरगर्वविनाशकः । गरुडः गरुडपक्षिस्वरूपः, ’वैनतेयश्च पक्षिणाम्' (गी, 10-30) इति स्मृतेः । गरुडाग्रजः- गरुडस्य ज्येष्ठभ्राता। विनताया ज्येष्ठपुत्रः सूर्यसारथिररुणः गरुडाग्रजः तत्स्वरूप इत्यर्थः । गोपीनाथः -- गोपिकानां भर्ता । महीनाथः - भूदेवीनायकः । वृन्दानाथः - वृन्दायाः राजकन्यायाः बृन्दावनाधिष्ठातृदेवतायाः वा नाथः । बृन्दावनभर्ता वा । अविरोधकः केनापि सह स्वतो विरोधं न करोतीति तादृशः । विरोधक इति वा च्छेदः । कुरून् पाण्डवांश्च विरोधयतीति विरोधकः ।। ५३ ॥


 53 c महानार्यो
 53 d ख. वृन्दानाथोऽवरोधकः