पृष्ठम्:गोपालसहस्रनामस्तोत्रम्.pdf/५२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३८
गोपालसहस्रनामस्तोत्रम्


नामकर्षिस्वरूपी । देवान् लाति आदत्ते रक्ष्यत्वेन स्वीकरोतीति वा देवलः। भीमः शास्त्रमर्यादां ये नानुवर्तन्ते ते बिभ्यत्यस्मादिति भीमः। 'भीमादयो- ऽपादाने (पा.सू. 3-4-74) इति पाणिनिः । अभीम इति वा च्छेदः सन्मार्गवर्तिनामभयङ्कर इत्यर्थः । बालः-बाल्यावस्थः श्रीकृष्णः । वटपत्रपुटशायी शिशुरूपो वा । बालवत् स्वमाहात्म्यानाविष्कारक इति वा । बाल्यावस्थमम्बुजमिव मुखं यस्य सः बालमुखाम्बुजः । बालस्येव मुखमम्बुजमिवास्येति वा बालमुखाम्बुजः॥ ४२॥.

 

 अम्बुजो ब्रह्मसाक्षी च योगी दत्तवरो मुनिः ।
 ऋषभः पर्वतो ग्रामो नदीपवनवल्लभः ॥ ४३ ॥

 अम्बुनि जले मत्स्यादिरूपेण जायतेऽवतरतीति अम्बुजः। ब्रह्मसाक्षी - ब्रह्मैव साक्षी । परब्रह्मस्वरूपः सन् सर्वं साक्षात् ईक्षते इति भावः । योगी जगद्रक्षणचिन्तावान् । दत्तवरः -- भक्तेभ्यो दत्तो वरो येन सः। योगिदत्तवर इति पाठे योगिभ्यो दत्तो वरो येन स इत्यर्थः । मुनिः- मननशीलः, भक्तानां हितचिन्तकः। ऋषभः --- 'ऋषी गतौ' इति धातो: 'ऋषिवृषिभ्यां कित् ' (उ.सू. 410) इति अभच्प्रत्ययः । भक्तानां आर्तिविनाशार्थं ते यत्र सन्ति तत्प्रदेशं प्रति स्वयं गच्छतीत्यर्थः । गजेन्द्रमोक्षादिवृत्तान्तेषु प्रसिद्धोऽयं भगवतो महिमा । पर्वतः - गिरिवदचञ्चलः । ग्रामः --- गुणसमूहोऽस्यातीति । चतुर्विधभूतग्रामः अस्यास्ति प्रेर्यत्वेनेति वा ग्रामः । नदीपवनवल्लभः --- नदीनां परिसरे सञ्चारी वायुः प्रियो यस्य सः । यद्वा नद्या: यमुनाया उपवनं समीपवनं तस्य वल्लभः स्वामी, तत् वल्लभः प्रियं यस्येत्यर्थः । उपवनमित्यत्र उकारलोपः ॥ ५३॥


 पद्मनाभः सुरज्येष्ठी ब्रह्मा रुद्रोहिभूषितः ।
 गणानां त्राणकर्ता च गणेशो ग्रहिलो ग्रही ॥१४॥


 43 b ख. योगिदत्त
 44. a.क ख. घ.ङ. सुरज्येष्ठो
 44 c क.गदानां