पृष्ठम्:गोपालसहस्रनामस्तोत्रम्.pdf/४८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३४
गोपालसहस्रनामस्तोत्रम्


मारीचक्षोभकारकः-- रावणसचिवस्य मारीचनामकस्य राक्षसस्य कम्पजनकः ॥३४॥


 ्विश्वामित्रप्रियो दान्तो रामो राजीवलोचनः ।
 लङ्काधिपकुलध्वंसी विभीषणवरप्रदः ॥ ३५ ॥

 विश्वामित्रप्रियः राजर्षेर्विश्वामित्रस्य तदाज्ञाया ताटकादिसंहारेण प्रीतिपात्रभूतः । दान्तः --- विश्वामित्रेण शिक्षितः, जितेन्द्रियः, तपःक्लेशसहिष्णुरिति वा । रामः ---- गुणैस्सर्वान् रमयतीति तादृशः दशरथपुत्रः । राजीवलोचनः ... पुण्डरीकदलामलायतेक्षणः । 'रामः कमलपत्राक्षः' (रा. 5-35-8) इति रामायणे। लङ्काधिपकुलध्वंसी - लङ्काधिपस्य रावणस्य कुलं वंशः तस्य नाशकः । विभीषणवरप्रदः --- रावणानुजस्य विभीषणनामकस्य राक्षसस्य शरणं गतस्याभीष्टदः ॥ ३५ ।।


 सीतानन्दकरो रामो वीरो वारिधिबन्धनः ।
 खरदूषणसंहारी साकेतपुरवासवान् ॥ ३६ ।।

 सीतायाः जानक्याः आनन्दजनकः । 'यस्त्वया स स्वर्गो निरयो यस्त्वया विना' (रा. 2-30-18) इत्युक्तं हि सीतया रामं प्रति । रामः दशरथपुत्रः सर्वप्रियकरः । रमणीया गुणा अस्येति वा । वीरः विविधमीरयति प्राणिनश्चेष्टयतीति तादृशः । शत्रुक्षेपणशील इति वा । 'अज गतिक्षेपणयोः’ इति धातोः 'स्फायितञ्चुवञ्चि' (उ.सू 2.13) इत्यादिनोणादिसूत्रेणरक्। 'अजेर्व्यघञपोः (पा. मृ. 2-4-56) इति बीभावः । शत्रुव्यथाकर इत्यर्थः।


 'ब्रह्मदण्डप्रकाशानां विद्युत्सदृशवर्चसाम् ।
 स्मरन् राघवबाणानां वित्र्यथे राक्षसेश्वरः ॥'
(रा .6-60-3)


 36 d. ख. घ. पुरवासनः