पृष्ठम्:गोपालसहस्रनामस्तोत्रम्.pdf/४६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३२
गोपालसहस्रनामस्तोत्रम्


पूतनानाम्नी असुरकन्या कंसेन प्रेरिता यशोदारूपिणी सविषं स्तन्यं ददौ । श्रीकृष्णश्च स्तन्यपानव्याजेन तां हतवान् । ततस्सा मोक्षमापेति भागवते । कुब्जाविनोदी- कंसदास्याः त्रिवक्रनाम्न्याः कुब्जायाः ऋजुतामापाद्य प्रमदोत्तमात्वं सम्पाद्य विनोदं कृतवानिति भागवतकथा । कंसमृत्युमहामखी- कंसस्य मृत्युः मरणं हननमेव महामखः: महायज्ञः अस्येति । कंसमृत्युर्महामखीति पाठे नामद्वयम् । कंसमृत्युः कंसविनाशकः । महामखी महान्तो यज्ञा आराधनभूताः सन्ति अस्येति तादृशः । महायज्ञसमाराध्य इत्यर्थः ।। ३० ।।


 अश्वमेधो वाजपेयो गोमेधो नरमेधवान् ।
 कन्दर्पकोटिलावण्यश्चन्द्रकोटिसुशीतलः ॥ ३१ ॥

 अश्वमेधः - तद्रूपः, वाजपेयः तद्रूपः, गोमेधस्तद्रूपः, नरमेधवान् नरमेधरूपः । अश्वमेधादियज्ञसमाराध्यः । ’यज्ञो वै विष्णुः' इति श्रुतिः । कन्दर्पकोटिलावण्यः– मन्मथकोटीनां यत् लावण्यं सौन्दर्यं तत्तुल्यं तदस्यास्तीति । त्रैलोक्यविस्मयकरसुन्दररूप इत्यर्थः । चन्द्रकोटिसुशीतलः कोटिसङ्ख्याकचन्द्रवत् अत्यन्त शीतलः। भक्तानामत्यन्ताभिगम्य इत्यर्थः 'चन्द्रकान्ताननं राममतीव प्रियदर्शनम् । (रा 2-3- 29.) इति रामायणे ॥३१॥


 रविकोटिप्रतीकाशो वायुकोटिमहाबलः ।
 ब्रह्मा ब्रह्माण्डकर्ता च कमलावाञ्छितप्रदः ॥ ३२ ॥

 रविकोटिप्रतीकाशः --- सूर्यकोटिसदृशः । अभक्तानां शत्रूणां सूर्यकोटिवत् सन्तापकः । 'तं तपन्तमिवादित्यम्’ इति रामायणे । वायुकोटि महाबलः --काटिसङ्ख्याकवायूनां यादृशं महाबलं स्यात् तादृशमहाबलयुक्तः । ब्रह्मा ब्रह्माण्डकर्ता --- हिरण्यगर्भरूपः सन् ब्रह्माण्डस्य स्रष्टा । कमलावाञ्छितप्रद:--कमलायाः लक्ष्म्या: अभीष्टदाता ॥ ३२ ॥