पृष्ठम्:गोपालसहस्रनामस्तोत्रम्.pdf/४४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३०
गोपालसहस्रनामस्तोत्रम्


आत्मा ब्रह्म तल्लक्ष्यमुच्यते। (मु. 2-2-4) इति श्रुतेः। रक्षोवंशविनाशनः राक्षसवंशस्य विनाशकः । वामन:- वामानि सुखानि नयतीति वामनः । द्रष्टॄणां स्वकान्त्या सुखप्रद इत्यर्थः । वामनरूपी बलिं याचितवानिति वा । सम्भजनीय इति वा । ’मध्ये वामनमासीनं विश्वेदेवा उपासते' (क. उ. 2-5-3) । 'वन' सम्भक्तौ इति धातोः कर्मणि ल्युट् । वामनीभूतः --- वामनीः इति छान्दोग्ये । अवामन: --- स्वतो बृहत्कायः । वामनारुहः- वामनो नाम गजविशेषः तमारोहतीति वामनारुहः। ‘गजेन महता यान्तम् । (रा. 2-2-22) इति रामायणे ॥ २७ ॥


 यशोदानन्दनः कर्ता यमलार्जुनमुक्तिदः ।
 उलूखली महामानी दामबद्धाह्वयी शमी ॥ २८ ॥

 यशोदानन्दनः -- यशोदाया आनन्दजनकः पुत्रः। कर्ता- जगत्स्रष्टा । असुरादीनां छेत्तेति वा। 'कृञ् करणे' 'कृती छेदने’ । स्वतन्त्र इति वा । 'स्वतन्त्रः कर्ता' (पा.सू. 1-6-54 ) इति पाणिनिस्मृतेः । यमलार्जुनमुक्तिदः ---युग्मयोरर्जुनवृक्षयोः मोक्षपदः । नवनीतचौर्येण क्रुद्धया यशोदया उलूखले रज्ज्वा बद्धः श्रीकृष्णः यशोदायां गृहकृत्येषु व्यग्रायां सत्यां नारदशापेन वृक्षतां प्राप्तयोः नलकूबरमणिग्रीवयोः मोक्षं दित्सुः उलूखलं निर्यभातमाकृष्य वृक्षयोर्मध्यभागादगच्छत् । उलूखलेन आकृष्टौ तौ वृक्षो पेततुः। ततस्तौ मुक्ताविति कथात्र स्मर्तव्या। उलूखली - उलूखले बद्धः। महामानी - मुक्ताभ्यां नलकूबरमणिग्रीवाभ्यां कृतः महान् मानः स्तोत्रादिकृतः सत्कारोऽस्यास्तीति तादृशः । अत एव दामबद्धाह्वयी-दामबद्ध इति आह्वयः नामाम्यास्तीति । दामोदर इति हि प्रसिद्धिः कृष्णस्य । शमीनिगृहीतेन्द्रियः ॥ २८॥ <poem>  भक्तानुकारी भगवान् केशवो बलधारकः ।  केशिहा मधुहा मोही वृषासुरविघातकः ॥ २९ ॥ <poem>


 28 c..ङ. महामानो
 29 b. ख. घ. केशवोऽचलधारक: