पृष्ठम्:गोपालसहस्रनामस्तोत्रम्.pdf/३८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२४
गोपालसहस्रनामस्तोत्रम्

  

 वृन्दापतिः कोशनिधिः कोकशोकविनाशनः ।
 चन्द्रापतिः चन्द्रपतिः चण्डकोदण्डभञ्जनः ॥ १८ ॥

वृन्दापतिः -- वृन्दावनाधिपतिः, राधापतिरिति वा । कोशनिधिः- योगिभिर्हृदयगुहायां निधीयमानः । योगिध्येय इति यावत् । ’आत्मा गुहायां निहितोऽस्य जन्तोः' (तं. ना. 66) इत्युक्तरीत्या सर्वेषां हृदयगुहायां निहित इति वा अन्नमयादिकोशाधार इति वा। कोश(क)शोकविनाशनः --- कोकानां चक्रवाकानां शोकापहन्ता । चन्द्रापतिः---लक्ष्मीपतिः, चन्द्रायाः चन्द्रवत्याः सख्याः पतिरिति वा । चन्द्रपति:-चन्द्रस्य स्वामी। चण्डकोदण्डभञ्जनः भीषणस्य धनुषः भङ्गकर्ता । रामावतारे कृतो धनुर्भङ्गोऽत्र विवक्षितः ॥ १८ ॥


 रामो दाशरथी रामः भृगुवंशममुद्भवः ।
 आत्मारामो जितक्रोधो मोहो मोहान्धभञ्जनः ॥ १९ ॥

 रामः कृष्णस्य ज्येष्ठभ्राता बलरामः । दाशरथिः- दशरथपुत्र: रामः । भृगुवंशसमुद्भवः --- भृगुकुलोत्पन्नः परशुरामः | आत्मारामः- आत्मैव आरामः उद्यानं यस्य सः । उद्यानवत् आत्मैव सुखवर्धको यस्य स इत्यर्थः । यदा आत्मना राधया सह आरामोऽस्येति आत्मारामः ।

 'आत्मा तु राधिका तस्य तयैव रमणादसौ ।
 आत्माराम इति प्रोक्तो मुनिभिर्गृढवेदिभिः ॥'

 इति स्कन्दपुराणवचनात् । जितक्रोधः जितः क्रोधः येन सः क्रोधाभाववान् । मोहः - मोहनः । भक्तेषु त्यामोहयुक्त इति वा । मोहान्धभञ्जन:-- अज्ञानान्धानां रक्षसाम् असुराणां च विनाशकः ।। १९ ॥


 18 a क. कोकनिधिः
 18 b घ. लोकशोकविनाशक:
  ख. कोकशोकविनाशक
   लोकशोकविनाशक: