पृष्ठम्:गोपालसहस्रनामस्तोत्रम्.pdf/३४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२०
गोपालसहस्रनामस्तोत्रम्


पुराणेष्वन्वेषणीयम् । देवः क्रीडमान: द्योतमानो वा। हली- हलायुधधारी दुर्दममर्दनः-दुःखेन दमययितव्यानामसाराणां मर्दनः हिंसकः। जरासन्धवधादौ प्रसिद्ध बलरामपौरुषम् ।

 'जग्राह विरथं रामो जरासन्धं महाबलम् ।
 हतानीकावशिष्टासुं सिंहः सिंहमिवौजसा ॥"

इति भागवते (१०-५०-३१) ॥ १० ॥

{{bold।
 सहस्राक्षपुरीभेत्ता महामारी विनाशनः ।
 शिवः शिवतमो भेत्ता बलारातिप्रपूजकः ॥ ११ ॥}}

 सहस्राक्षपुरीभेत्ता- सहस्राक्षः इन्द्रः तस्य पुरी अमरावती तस्याः भेत्ता । महामारी--महतः दुर्दान्तान् दानवादीन् मारयतीति तादृशः । विनाशन:-शत्रुहन्ता प्रलये सर्वसंहारक इति वा । शिवः- मङ्गलस्वरूपः। शिवतमः-- मङ्गलेषूत्कृष्टः । भेत्ता- शत्रुतदीयविदारकः भक्तानामापद्विनाशको वा । बलारातिप्रपूजक:- बलस्य तन्नामकस्यासुरस्य अरातिः शत्रुः इन्द्रः, तस्य पूजकः सत्कारकः इन्द्रानुजत्वात् ॥ ११ ॥


 कुमारीवरदायी च वरेण्यो मीनकेतनः ।
 नरो नारायणो धीरो राधापतिरुदारधीः ॥ १२ ॥


 कुमारीणां गोपकन्यकानाम् वरदायी-वरप्रदः। वरेण्यः-वरणीयः उपायत्वेन उपेयत्वेन च भक्तैः प्रार्थनीयः। स्वरूपेण कल्याणगुणैर्दिव्यमङ्गलविग्रहेण च ब्रह्मादिभिराश्रयणीय इति वा। मीनकेतन:- मकरध्वजः मन्मथः । 'साक्षान्मन्मथमन्मथः । प्रद्युम्नाख्यावतारविशेषो वा। नरः 'नृ नये' इत्यस्माद्धातोः पचाद्यच् । भक्तानामभीष्टं वरं प्रापयतीत्यर्थः । 'नरतीति नरः प्रोक्तः परमात्मा सनातनः’। इति महाभारते। न रीयते क्षीयत इति वा



 11. d क.ङ.बलारातिप्रयोजक:
 12. d क.घरापतिरुदारधि:
  ङ्. धीरापतिरुदारधीः