पृष्ठम्:गोपालसहस्रनामस्तोत्रम्.pdf/३०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१६
गोपालसहस्रनामस्तोत्रम्


कः प्राण्यात्' (तै. त्रा. 7 अनु.) इति श्रुतेः। जगद्धाता-जगद्धारक: जगत्पोषको वा। जगद्भर्ता-जगतः स्वामी । जगद्वसुः जगति वसति अन्तर्यामितया तिष्ठतीति जगद्वसुः ॥ ३ ॥


 मत्स्यो भीमः कुहूभर्ता हर्ता वाराहमूर्तिमान् ।
 नारायणो हृषीकेशो गोविन्दो गरुडध्वजः ॥ ४॥

मत्स्यः --- वेदोद्धाराय स्वीकृतमत्स्यरूपः । भीमः -- बिभ्यति सर्वेऽस्मादिति भीमः । 'भीमादयोऽपादाने' (पा. सू. 3-4-74)। अभीम इति वा च्छेदः। सन्मार्गवर्तिनामभयङ्कर इत्यर्थः । कुहूभर्ता-- उदये अमायोगान्नष्टचन्द्रकला सा अमा कुहूः तस्याः भर्ता । हर्ता - आश्रितानां पापं हरतीत्यर्थः । वाराहमूर्तिमान् --- वराहरूपी । नारायणः -.. नरात भगवतो नातानि तत्त्वानि नाराणि अयनं यस्य सः सर्वान्तर्यामीत्यर्थः । हृषीकेशः - हृषीकाणामिन्द्रियाणामीशः नियामकः ।

तदुक्तं हरिवंशे----

 ’हृषीकाणीन्द्रियाण्याहुस्तेषामीशो यतो भवान् ।
 हृषीकेशस्ततो विष्णुः ख्यातो देवेषु केशवः ॥'

इति । गोविन्दः गाः स्तुतिवाक्यानि विन्दते प्राप्नोतीति गोविन्दः । स्तुतिगीविषय इत्यर्थः । गरुडः ध्वजः यस्य सः गरुडध्वजः। गरुडचिह्नितो ध्वजपटो यस्येति वा ॥ ४॥


 गोकुलेन्द्रो महीचन्द्रः शर्वरीप्रियकारकः ।
 कमलामुखलोलाक्षः पुण्डरीकः शुभावहः ॥ ५॥

 गोकुलेन्द्रः --- गोकुलाधिपतिः । महीचन्द्रः- मह्याः भूमेः चन्द्रः आह्वादकः । शर्वरीप्रियकारक:-शर्वर्यां रात्रौ प्रियं करोतीति तादृशः । दिवा


 4 a.ग. कुहूः कर्ता.
 5 a.ख.ग. महाचन्द्रः
 5 d.ग.पुण्डरीकसुखावहः