पृष्ठम्:गोपालसहस्रनामस्तोत्रम्.pdf/२९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१५
गोपालसहस्रनामस्तोत्रम्


निवर्तयतीति वा कृष्णः । कर्षति आकर्षति भक्तानां मन इति वा कृष्णः । नीलमेघश्यामल इति वा । कमलपत्रे इव आयते आह्वादके च अक्षिणी यस्य सः कमलपत्राक्षःपुण्डरीकः--अम्भोजवत् कमनीयः। यद्वा हृदयपुण्डरीकाश्रयत्वात् पुण्डरीकः । 'अत यदिदमस्मिन् ब्रह्मपुरे हृदयं पुण्डरीकं वेश्म' (छा. 8-1-1) इति श्रुतेः। सनातनः-- नित्यः । गोपतिः- वाक्पतिः। गवामिन्द्रियाणां पतिः नियन्ता वा, गोपालको वा । भूपतिः -- भुवो भर्ता । पालको वा भारापनयनात् । शास्ता-श्रुतिस्मृतिभ्यां सर्वेषामनुशासकः । शत्रुनिग्राहको वा । प्रहर्ता- शत्रुहन्ता । प्रहर्षेण हरति प्रीत्या स्वीकरोति भक्तानां तुलसीपत्रादिकमिति वा प्रहर्ता । भक्तानां क्लेशं नाशयति इति वा पहर्ता ।


 पत्रं पुष्पं फलं तोयं यो मे भक्त्या प्रयच्छति ।
 तदहं भक्त्युपहृतमश्नामि प्रयतात्मनः ॥' (गी. 9-26)

 'अहं त्वा सर्वपापेभ्यो मोक्षयि ष्यामि' (गी. 18-66)

इति स्मरणात् । विश्वतोमुखः- सर्वत्र मुखं यस्य सः । 'अनेकबाहूदरवक्त्रनेत्रम्' (गी. 11-16) इत्युक्तरीत्या अनन्तमुखयुक्तदिव्यमङ्गलविग्रहवानित्यर्थः । 'विश्वतश्चक्षुरुत विश्वतोमुखः। (तै. मा. 14) इति श्रुतिः । विश्वेषां सर्वेषां देवानां मुखमिव प्रधानभूत इति वा। तैरुपास्य इत्यर्थः । 'विश्वे देवा उपासते' (कठ. 5-3) इति श्रुतेः ॥ २ ॥


 आदिकर्ता महाकर्ता महाकालः प्रतापवान् ।
 जगज्जीवो जगद्धाता जगद्भर्ता जगद्वसुः ॥ ३ ॥

आदिश्चासौ कर्ता च आदिकर्ता । महतः विपुलस्य प्रपञ्चस्य कर्ता महाकर्तामहाकालः-प्रलयकाले महान्तं प्रपञ्चं स्वस्मिन् कलयति सङ्कलयति एकीभावयतीति महाकालः । प्रतापवान् - परानभिभावनीयत्वं प्रताप: तद्वान् । जगत् जीवयतीति जगज्जीवः सर्वजगत्प्राणनहेतुः । 'को ह्येवान्यात्


 3 d. ङ.जगत्कर्ता .