पृष्ठम्:गोपालसहस्रनामस्तोत्रम्.pdf/२८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१४
अथ गोपालसहस्रनामस्तोत्रप्रारम्भः।


 ओं क्लीं देवः कामदेवः कामबीजशिरोमणिः ।
 श्रीगोपालो महापालो वेदवेदान्तपारगः ॥ १ ॥

देवः -- क्रीडाशीलः गमनशीलः अनुपमकान्तिमान् दीप्यमानश्च । कामदेवः --- सर्वकामप्रदाता, कामान् दीव्यति ददाति इति । अथ वा धर्मादिपुरुषार्थचतुष्टयं वाच्छद्भिः काम्यत इति कामः, स चासो देवश्व कामदेवः। कामबीजशिरोमणिः – काम्यमानानां पुरुषार्थानां कारणश्रेष्ठः । श्रीगोपालः– गाः पालयतीति गोपालः, श्रीसहितो गोपालः श्रीगोपालः । गोशब्दः धेनुवाचकः वाग्वाचकश्च । यद्वा श्रियः राधायाः रुक्मिण्याः सत्यभामाया; वा गाः वचांसि पालयति अनुसरतीति श्रीगोपालः । महापालः- महांश्चासौ पालकश्च महापालः । 'महीपाल' इति पाठे महीं पालयतीति महीपालः । वेदानां वेदान्तानां च पारं गच्छतीति वेदवेदान्तपारगः -- वेदवेदान्तनिष्णातः वेदवेदाङ्गपारग इति पाठे वेदेषु वेदाङ्गेषु च निष्णात इत्यर्थः । 'वेदान्तकृद्वेदविदेव चाहम्।’ (गी. 15-15) इति गीतायाम् ॥ १॥


 कृष्णः कमलपत्राक्षः पुण्डरीक: सनातनः ।
 गोपतिर्भूपतिः शास्ता प्रहर्ता विश्वतो मुखः ॥ २ ॥

कृष्णः- भूनिर्वृतिहेतुः भूमेः सुखदायक इत्यर्थः । 'कृषिर्भूवाचकः शब्दः णश्च निर्वृतिवाचकः' इति पुराणवचनात् । भक्तानां दुःखानि कर्षति,



 1 ab.क. ख. ग.घ ङ. पुस्तकेषु इदं पादद्वयं नास्ति.
 1 c ख. ग. ङ. महीपालः
 1 d ख. सर्ववेदान्त,....
  क.ङ. वेदवेदाङ्ग.

              ग  सर्ववेदाङ्ग

 2 a .ख.घ. धरणीपालको धन्यः.
 2 b. ख. पुण्डरीकं सनातनम्.