अथ हृदयादिन्यास:-
ओं क्लीं हृदयाय नमः १
ओं कृष्णाय शिरसे स्वाहा २
ओं गोविन्दाय शिखायै वषट् ३
ओं गोपीजन वल्लभाय कवचाय हुं - ४
ओं वल्लभाय नेत्रत्रयाय वौषट् ५
ओं स्वाहा अस्त्राय फट् ---- ६
इति हृदयादिन्यासः।
अथ ध्यानम्-
कस्तूरीतिलकं ललाटपटले वक्षस्थले कौस्तुभं
नासाग्रे [१]'वरमौक्तिकं करतले वेणुं करे कङ्कणम् ।
सर्वाङ्गे हरिचन्दनं सुललितं कण्ठे च [२]'मुक्तावलिं
गोपस्त्रीपरिवेष्टितो विजयते गोपालचूडामणिः ॥ १ ॥
ललाटफलकादौ कस्तूरीतिलकादिकं दधानः गोपाङ्गनापरिवेष्टित: गोपालचूडामणिः सर्वोत्कर्षेण वर्तते इत्यर्थः ।
[३]}फुल्लेन्दीवरकान्तिमिन्दुवदनं बर्हावतंसप्रियं
श्रीवत्साङ्कमुदारकौस्तुभधरं पीताम्बरं सुन्दरम् ।
गोपीनां नयनोत्पलार्चिततनुं गोगोपसङ्घावृतं
गोविन्दं कलवेणुवादनपरं दिव्याङ्गभूषं भजे ॥२॥
विकसितनीलोत्पलसदृशकान्तिं चन्द्रबिम्बोपमास्यं शिखिपिच्छाख्यं शिरोभूषणं प्रियं यस्य तादृशं श्रीवत्सचिह्नम् उदारकौस्तुभाख्यमणिधारकं पीतपरिधानं रुचिरं गोपीनां नेत्रोत्पलैरर्चिता मूति(र्ति)र्यस्य तादृशं गवां गोपालानां च सङ्घैः परिवेष्टितं मधुरवेणुवादनासक्तं दिव्यभूषणयुक्तविग्रहं गोविन्दं श्रीकृष्णं भजे इत्यर्थः ॥ २ ॥