पृष्ठम्:गोपालसहस्रनामस्तोत्रम्.pdf/२४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१०
गोपालसहस्रनामस्तोत्रम्


तदेवाह -


 दुर्वाससो मुनेर्मोहे कार्तिक्यां रासमण्डले ।
 ततः पृष्टवती राधा सन्देहभेदमात्मनः ॥ २० ॥

 दुर्वाससः - तन्नामकमुनेर्मोहे सति कार्तिक्यां मासे रासक्रीडामण्डले आत्मनः स्वस्य सन्देहभेदं सन्देहविशेषं राधा पृष्टवती ॥ २० ॥


 निरञ्जनात्समुत्पन्नं मयाधीतं जगन्मयि ।
 श्रीकृष्णेन ततः प्रोक्तं राधायै नारदाय च ॥ २१ ॥

हे जगन्मयि-पार्वति निरञ्जनात्-भगवतः श्रीकृष्णात् समुत्पन्नं--मया तत् अधीतं तदेव श्रीकृष्णेन राधायै नारदाय च प्रोक्तम् । तया च मह्यमुक्तम् ॥ २१ ॥


 ततो नारदतस्सर्वे विरला वैष्णवा जनाः ।
 कलौ जानन्ति देवेशि गोपनीयं प्रयत्नतः ॥ २२ ॥

ततः- तदनन्तरम्, नारदतः-नारदसकाशात् विरला:- न्यूनसङ्ख्याकाः सर्वे वैष्णवाः जनाः कलौ युगे एतत् स्तोत्रं जानन्ति। हे देवेशि प्रयत्नतः इदं गोपनीयं- गूहनीयम् । न सर्वेभ्यो वक्तव्यम् , विशिष्य चानधिकारिभ्यः ।। २२ ॥


 शठाय कृपणायाथ दाम्भिकाय सुरेश्वरि ।
 ब्रह्महत्यामवाप्नोति तस्माद्यत्नेन गोपयेत् ॥ २३ ॥

 हे सुरेश्वरि शठाय ---पुरतः प्रियमुक्त्वा यो गूढं विप्रियं करोति स शठः तस्मै । कृपणाय-दीनाय। दाम्भिकाय-परवञ्चकाय


20 c ग. ततः पृच्छवती.
20 d क. ग. ङ. संदेहं भेदम्,
22 a ख. नारदतः सर्व.
22 b क. ख. ग. वैष्णवास्तथा.