पृष्ठम्:गोपालसहस्रनामस्तोत्रम्.pdf/२२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
गोपालसहस्रनामस्तोत्रम्


द्वाभ्यां प्रयाचितो नाथ:-


 त्वमेव पूर्वसर्गेऽभूः पृश्निः स्वायम्भुवे सति ।
 तदायं सुतपा नाम प्रजापतिरकल्मषः ॥

(भाग. १०-३.३२)

इत्यादिना श्रीमद्भागवतोक्तरीत्या पृश्निसुतपोभ्यां पार्थितो नाथः -- स्वापेक्षितसिद्ध्यर्थं याचनीयः स्वामी. देवैः ब्रह्मणा च पार्थितः- -.


 'ब्रह्मा तदुपधार्याथ सह देवैस्तया सह ।
 जगाम मत्रिनयनस्तीरं क्षीरपयोनिधेः ।।

(भाग. १०-१-१९)

इत्याद्युक्तरीत्या याचितस्सन् हे सुरेश्वरि ! देवेश्वरि ! देवक्यां वसुदेवात् जात: अवन्यां भूलोके । 'मुरलीवेदरेचिका' इति पाठे वेदात् स्वरूपज्ञानात् रेचिका वियोजिका प्रच्याविका या मुरली योगमाया । मुरति संवेष्टयति विवशं करोतीति मुरः मोहः 'मुर संवेष्टने’ इगुपधलक्षणः कः । तं लाति ददातीति व्युत्पत्तेः । तया सार्धं वचः कृत्वा — ’गच्छ देवि व्रजं भद्रे' इत्यादिवाक्यमुक्त्वेत्यर्थः । अथ वा 'मुरलीवादरोचकः' इति पाठ: संभाव्यते। मुरलीवादने रुचिमानिति तदर्थः । समीचीनं पाठान्तरमन्वेषणीयम् । 'मुरलीवादनेच्छया' इति पाठस्तु समीचीन एव । तया सार्धं श्रिया सह महीतले ज्ञातः भूतलेऽवतीर्णः वचः कृत्वा समालोचनं कृत्वा ॥ १४-१५ ॥


 संसारसारसर्वस्वं श्यामलं महदुज्ज्वलम् ।
 एतज्ज्योतिरहं वेद्यं चिन्तयामि सनातनम् ॥ १६ ॥

संसारसारसर्वस्वं संसारे प्रकृतिमण्डले साररूपं सर्वस्वं सर्वविधं स्वम्, श्यामलम्, नीलमेघवत् श्यामवर्णयुक्तम् महत् -- अत्यन्तम्, उज्ज्वलं देदीप्यमानम् , एतत्-पूर्वोक्तम् , सनातनं ---- नित्यम् , वेद्यं - ज्ञातव्यम् , ज्योतिः राधाकृष्णाख्यं तेजः चिन्तयामि ध्यायामि ॥१६॥


1 6 c क. ग. एतज्ज्योतिरहं वन्द्ये.